________________
२०७
सामान्योऽन्यो नरस्तादृग्दशायां बहुमाचरेत् ।
अपवादं परं तैस्तु,
बहूत्सर्गः प्रसेवितः । । ६१ ।।
प्रत्याख्यानं नमस्कार
सहितमेव पर्वणि ।
वार्षिके तैः कृतं सप्त
. समतामहोदधिः महाकाव्यम्
दिनावध्यामयार्द्दितैः ।।६२ ।।
परन्तु हार्दिको भावो.
दिनेऽन्तिमे प्रदर्शितः ।
पूज्यानामग्रतः कर्त्तु,
तैरुपवासमुत्कटः ।। ६३ ।।
अनुज्ञामददुः पूज्या
स्तात्त्विकोपायवेदिनः ।
तद्दिने 'बारसासूत्रं',
तैः श्रुतं स्वस्थचेतसा ।। ६४ ।।