________________
१९७
_ समतामहोदधिः महाकाव्यम्
प्रत्यहं सह पानीय
वृष्ट्योपदेशवर्षणम् । चातुर्मासे समारब्धं,
कर्ममलविशोधकम् ।।४१॥
संयमिसेवने सङ्घ
स्तत्परः समजायत । श्राद्धा आराधयन्धर्म
मानन्दोत्साहपूर्वकम् ।।४२॥
चम्पकधारशीभ्यां सु
श्राद्धाभ्यां पुण्यबन्धकृत् । लाभ औषधदानस्य,
लब्धोऽभ्युदयकारकः ।।४३।।
प्रारब्धः साधनायज्ञो,
योगेषु व्रतिनामपि । वैयावृत्त्यतपोज्ञान
संयमाद्येष्वितः शुभः ।।४४।।