________________
१९१.
भावनिर्भरविज्ञप्त्या
सङ्घस्य तत्र निश्चितम् ।
चातुर्मासं तदा तस्य,
वर्षस्य प्रेमसूरिभिः ।। २९।।
पददानमहात्पश्चाद्
ग्रामं हलवदं प्रति ।
पृथुना प्रस्थिताः पूज्याः,
. समतामहोदधिः महाकाव्यम्
परिवारेण सङ्गताः ।। ३० ।।
वढवाणपुरे रम्ये,
श्रीपद्मविजयाः स्थिताः ।
कृतोऽष्टमतपस्तत्र,
सह मन्त्रजपेन तैः ।। ३१ ।।
शीर्षे पीडाऽन्यदा तेषां,
द्रष्टुरपि भयङ्करी ।
प्रादुर्भूता तथाप्यार्त्त
ध्यानं नैव कृतं तु तैः ।। ३२ ।।