________________
१८७
पीडावृद्धिं ततस्तेषां,
दृष्ट्वा श्राद्धैर्व्यथाभृतैः ।
गुर्वाज्ञा याचिता प्रेष्य,
सन्देशं भावपत्तने ।। २१ ।।
गुरुभिरपि दत्ताऽऽज्ञा,
प्राच्यवैद्यौषधं ततः ।
त्यक्त्वा तूर्णं गृहीतं तैः,
समतामहोदधिः महाकाव्यम्
नव्यवैद्यस्य भैषजम् ।। २२ ।।
शस्त्रहतास्तु
योधारो,
युद्धे विक्रमशालिनः ।
कदाऽपि नाऽवमन्यन्त,
आदेशं पृतनापतेः । ।२३।।
पद्मैरपि तथा स्वीये,
कदाचिदपि जीवने ।
अवमता न गुर्वाज्ञा,
गुर्वर्पितस्वजीवनैः ।। २४ ।।