________________
१८३
समतामहोदधिः महाकाव्यम्
प्रतिदिनमवज्ञाय,
शारीरिकी स्ववेदनाम् । अददुरुपदेशं ते,
श्राद्धेभ्यः सुस्वरेण तु ।।१३॥
.
योगक्षेममकुर्वंस्ते,
मुनीनां सारणादिभिः । स्वपरोपकृतिळधि
ग्रस्तरपीति तैः कृता ।।१४।।
मस्तकवेदना दाहः
किरणानां च काशनम् । पीडाः शमेन तैः सोढा,
वमनमेवमादिकाः ।।१५।।
कृच्छ्रेण भोक्तुमाहारं,
सम्भाषितुमशक्नुवन् । रोगास्तेि च भुजाना,
जलार्दीकृतभोजनम् ।।१६।।