________________
१८१
_ समतामहोदधिः महाकाव्यम्
कतिचिद्भिः प्रयाणैस्ते,
__सुरेन्द्रनगरं वरम् । प्राप्ताः सङ्घन सङ्घस्य,
भक्तिः परा हृदा कृता ।।९।।
वैद्येन तत्र पद्मानां,
चिकित्साऽपि कृता ततः । पूज्यैस्ते सङ्घविज्ञप्त्या,
तत्रैव स्थापिताः पुरे ।।१०।।
श्रीपूज्याः सह सङ्घन,
तं विमलगिरिं गताः । सिद्धा यस्य प्रभावेन,
सङ्ख्यातीतास्तु जन्तवः ।।११।।
प्रारब्धः साधनायज्ञः,
श्रीपद्मविजयैरितः । बृहत्कल्पस्य साधुभ्यो,
दत्तास्तथा सुवाचनाः ।।१२।।