________________
१७५.
समतामहोदधिः महाकाव्यम्
इति वैराग्यदेशनादक्ष-आचार्यश्रीमद्विजय-हेमचन्द्रसूरिशिष्य-विनिर्मित-समतामहोदधि'-महाकाव्ये चरित्रनायक-पंन्यासप्रवरश्रीपद्मविजय - सगुरुसुरेन्द्रनगरविहार-राजविजयकान्तिविजयशततमौलिपारणउपधानतप:- सङ्घयात्रा- परमतेज' प्रकाशन-पर्वतिथिभेद-टाटारुग्णालयचिकित्सादि-वर्णनमयं षष्ठं पद्मं समाप्तम् ।
पं. पद्मविजयानां वीरवचनम्___ भो वीरश्रमणसुभट ! श्रामण्यं त्वान्तरशत्रुभिः सह युद्धम् । तत्स्वीकृत्याधुना गौरवादिप्रमादैर्वशीभूय त्वं किं हतोत्साहोऽसि ? भीष्मप्रतिज्ञानां भारं किं त्वं व्यस्मरः ? महानुभाव ! क्षात्रकर्मण आविर्भावनार्थं बद्धकक्षो भव । आत्मनोऽनन्तज्योति: प्रकटयितुं तदेव क्षात्रकर्माऽनन्योपायो भविष्यति । कातरा: प्रमादिनश्च विपरीतं पुरुषार्थ कृत्वैतत्क्षात्रकर्म रुन्धन्ति । - ‘पद्मपरिमल: ।'