________________
१६७.
समतामहोदधिः महाकाव्यम्
ज्ञेयमिदं तु तत्कालं,
यावत्केन्सररुज्यपि । अकुर्वन्वेदनाः सोढवा,
पादविहारमेव ते ॥४१॥
अन्योपायमपश्यद्भि
स्तत एव कृता किल । शिबिकाविहतिः पद्म
गुरुदेवशुभाज्ञया ।।४२॥
दिनानां विंशतेः पश्चा
त्प्राप्ता मुम्बापुरीं तु ते । कृतं दादरसङ्घन,
तेषां सुस्वागतं हृदा ।।४३॥
चिकित्सा कारिता तेषां,
टाटारुग्णालये वरे । करैर्नाश्या नवा ग्रन्थि
रिति वैद्यैस्तु निश्चितम् ।।४४।।
१. करैः = किरणैः ।