________________
१६१
समतामहोदधिः महाकाव्यम्
वडगच्छतया पश्चा
त्तपागच्छतया ततः । विविधैर्नामभिः काल
क्रमेण त्वेवमादिभिः ।।२९।।।। युग्मम् ।।
शुद्धान्वयः प्रभोः ख्यातो,
यशोविजयवाचकैः । सुबुद्धिभिस्तपागच्छे,
न्यायशास्त्रविशारदैः ॥३०॥
जातः परन्तु गच्छेऽस्मि
न्भेद आराधनातिथेः । कतिचिद्भिर्गतैर्वर्षेः,
सुरत्ने मलसन्निभः ॥३१॥
वार्षिकपर्वभेदोऽब्दे,
तस्मिँस्तु समजायत । जातौ सोऽपि भेदौ द्वौ,
पूज्यास्तद्व्यथिता भृशम् ।।३२।।