________________
१५७.
सम्पन्नः पूज्यनिश्रायां, मालारोपमहोत्सवः ।
ततः शङ्खश्वरे तीर्थे,
दादरसङ्घ आगतः ।।२१।।
तीर्थात्शङखेश्वरात्तेन,
गिरिराजस्य योजितः ।
सङ्घश्चरणयात्रायाः,
पूज्यानां समुपस्थितौ ।। २२ ।।
सङ्घः सिद्धगिरिं प्राप्तः,
. समतामहोदधिः महाकाव्यम्
शासनस्य प्रभावनाम् ।
कुर्वन्सङ्घस्य माला च,
सम्पन्नोत्साहपूर्वकम् ।।२३।।
श्राद्धा राजपुराज्ज्ञान
मन्दिरस्यागतास्तदा ।
चातुर्मासस्य विज्ञप्त्यै,
तत्पूज्यैरपि निश्चितम् ।।२४।।
१. तत् = चातुर्मासम् ।