________________
१४७
समतामहोदधिः महाकाव्यम्
षष्ठं पद्मम् ।
इतः शततमौलेस्तु,
पारणस्य महे पुरे । अपैक्षेतां सुरेन्द्राख्ये,
पूज्यनिश्रां तपस्विनौ ॥१॥
व्यहरंस्तु ततः पूज्याः,
सुरेन्द्रनगरं प्रति । अचलँश्च तदा सार्धं
तैः पद्मविजया अपि ॥२॥
व्यहरन्मन्दया गत्या,
पूज्या मार्गे जरावशात् । श्रीपद्मा अपि तैः सार्ध
मेवाऽचलन्शनैस्ततः ।।३।।
प्राप्तवन्तो विहारे ते,
प्रभाते दशवादने । ग्रामं स्वागतयात्रायां,
ततः पूज्यैः सहाऽभ्रमन् ।।४।।