________________
१४३
- समतामहोदधिः महाकाव्यम्
श्रीपद्मविजयैः श्राद्धा,
अनेके प्रतिबोधिताः । शिक्षा व्रतस्य साधुभ्य
स्तत्र दत्ताऽपि शोभनाः ।।५७॥
श्रीपूज्या दादरे प्राप्ता
श्चातुर्मासादनन्तरम् । तत्र तदीयनिश्राया
मुपधानतपोऽभवत् ।।५८।।
वैराग्यसागर - जिनेवरभक्तिदक्ष
हेमेन्दुसूरिशिशुना रचिते सुभक्त्या । पंन्यासपद्मविजयस्य चरित्रकाव्ये
पूर्णं सुपद्ममिति बोधिदपञ्चमं तु ।।५९।।