________________
१३३
समतामहोदधिः महाकाव्यम्
पूज्यैः शासनरागस्य,
प्रदत्ता वाचना ततः । तथा संयमसंशुद्धे
रान्तरशत्रुभेदिनी ॥३७॥
पूज्यानां नम्रतां दृष्ट्वा,
नयनान्यभवस्तदा । बाष्पैरार्द्राणि सर्वेषां,
__ मुनीनां गुणधारिणाम् ।।३८।।
तच्चातुर्मासके बाबु
श्रेष्ठी पत्न्या सहाऽभवत् । वैराग्यवासितो दीक्षा
प्रतिपत्त्यभिलाषुकः ।।३९।।
इतो दादर आरब्ध
मुपधानतपस्तदा । पद्मविजयनिश्राया
मानन्दोल्लासपूर्वकम् ।।४।।