________________
१११
सन्ति शिष्यप्रशिष्यास्तु, सूरिपदविराजिताः ।
विशालपरिवाराश्च
. समतामहोदधिः महाकाव्यम्
तदीया बहवोऽधुना ।। ४८ ।।
साधनाजीवनं शब्द
स्थीकृतं तु समासतः ।
तेषामेवं मया पञ्च
दशाब्दं मन्दमेधसा ।। ४९ ।।
वैराग्यसागर-जिनेश्वरभक्तिदक्ष
हेमेन्दुसरिशिशुना रचिते सुभक्त्या ।।
पंन्यासपद्मविजयस्य चरित्रकाव्ये ।
पद्मं जिनस्य कृपया ह्यभवच्चतुर्थम् ॥ ५० ॥
इति वैराग्यदेशनादक्ष-आचार्य श्रीमद्विजयहेमचन्द्रसूरिशिष्यविनिर्मित 'समतामहोदधि' महाकाव्ये