________________
१०९.
- समतामहोदधिः महाकाव्यम्
-
व्याधौ शस्त्रक्रियायाञ्च,
प्रसेविताननीहया । दोषान्गुरुपुरस्तात्ते,
निन्दित्वा समशोधयन् ।।४४॥ .
शिष्यपरिवारः ।
शिष्यकरण आसँस्ते,
निःस्पृहा गुरुसेवकाः । तथापि गुरुभिस्तेषां,
कृताः शिष्यास्तु केचन ।।४५।।
मित्रानन्दश्च हेमादि
चन्द्रस्तथा सुबुद्धिमान् । जगच्चन्द्रश्च नन्द्यादि
वर्धनः सरलाशयः ॥४६॥ गुणभद्रो गुणैर्भद्र
स्तथा जयादिवर्धनः । शिष्या इत्यादयस्तेषां,
समतासुखभोगिनाम् ।।४७।।।। युग्मम् ।।