________________
१०३
_ समतामहोदधिः महाकाव्यम्
जात उच्छिष्टवक्त्रेण
ह्यनाभोगेन भाषणे । ते क्षमाश्रमणांस्तूर्ण
मददुः पञ्चविंशतिम् ।।३२॥
श्रीपद्मविजयैर्लब्धाः,
संस्काराः संयमस्य तु । प्रभृति शैशवात्तत्त,
ईर्यामपालयन्गतौ ॥३३॥
सूर्यास्ते खलु जाते ते,
दण्डासनं करे सदा । गृहीत्वा तेन भूमिं प्र
मृज्याऽचलँछनैः शनैः ।।३४।।
पथ्यां तथ्यां मितां वाच
मभाषन्त सदा हि ते । भाषासमितिसंयुक्ता,
वचनगुप्तिसंयुजः ।।३५॥