________________
आह्निकम् ]
प्रमाणप्रकरणम् पदार्थप्रतीत्युपायाश्च वर्णाः, तेऽपि न युगपद्भाविनः, कुतः प्रतीतिकृतं सामस्त्यम् ? __अपि च पदार्थसमुदायः किमितरेतरसंस्पृष्टो वाक्यार्थः, अन्यथा वा । न तावदन्यथा, गौरश्वः पुरुषो हस्तीत्येवमादावदर्शनात् । संसर्गस्तु दुरुपपादः । स ह्यपेक्षागर्भो भवति । न चार्थोऽर्थान्तरमाकाङ्क्षति, अचेतनत्वात् । बुद्धी- 5 नामपि क्षणिकत्वादन्योन्यं नाकाङ्क्षा । न च तत्कृतः सम्बन्धः ।
अत एव न संसर्गो वाक्यार्थः, न ह्यसावर्थानां ज्ञानानां वा यथोक्तनीत्यावकल्पते ।
व्यवच्छेदोऽप्येवमेव निराकार्यः । सोऽपि हि न ज्ञानानामुपपद्यते । तदुक्तम्,
यदि ध्रियेत गोबुद्धिः शुक्लबुद्धिजनिक्षणे ।
ततोऽन्येभ्यो निवर्तेत संसृज्येताथ वा तयेति ॥ न चापेक्षायां सत्यामपि सम्बन्धः कश्चिदुपलभ्यते । यथोक्तम्,
अपेक्षणेऽपि सम्बन्धो नैव कश्चित् प्रतीयते । कार्यकारणसंयोगसमवायादिलक्षणः ॥
एकार्थवृत्तिप्रायस्तु सम्बन्धोऽतिप्रसज्यते । .. अर्थानान्तु क्वचिदपि सन्सम्बन्धः शब्दैरनभिधीयमानत्वाद् असत्कल्प एव । न चाभेदसंसर्गयोर्वाचकं किञ्चित् पदमस्ति । असति च तद्वाचिनि पदे न तयोः पदार्थत्वम् । अपदार्थस्य च न वाक्यार्थत्वम् । श्रुतेऽपि तद्वाचिनि पदे सतुरामसङ्गतिः, गौः शुक्ल आनीयतां संसर्ग इति कोऽर्थः ? तस्माद् बाह्यस्य 20 वाक्यार्थस्य सर्वप्रकारमसम्भवात् पदार्थसंसर्गनिर्भासं ज्ञानं वाक्यार्थो भवितुमर्हति । तेनैव च लोके व्यवहार इति ।
अपेक्षणेऽपोति । बुद्धीनाम् । अथैकात्मवृत्तित्वं सम्बन्धो बुद्धीनामिति तन्नेत्याह एकार्थवृत्तिप्रायस्त्विति । गौरश्वः पुरुषो हस्तीत्यादिबुद्धोनामप्येकार्थसमवायादवाक्यार्थत्वेऽपि वाक्यार्थत्वप्रसक्तेरतिप्रसङ्गः ।