________________
5
10
15
20
25
३३
न्यायमञ्जय
सामान्यस्वलक्षणयोविरोधादेकत्रासम्भव इति शङ्कानिरासः यदप्यभिहितम् इतरेतरविरुद्धरूपसमावेश एकत्र वस्तुनि नोपपद्यत इति
तदपि न सम्यक् ।
परस्परविरोधोऽपि नास्तीह तदवेदनात् । एकबाधेन नान्यत्र धीः शुक्तिरजतादिवत् ॥ यत्र हि विरोधो भवति तत्रैकतररूपोपमर्देन रूपान्तरमुपलभ्यते । प्रकृते नैवमिति को विरोधार्थः । छायातपावपि यद्येकत्र दृश्येते कि केन विरुद्धमभिधीयते । अदर्शनात्तु तद् विरुद्धमुक्तं न चैवमिहादर्शनमित्यविरोधः । अत एव हि मिथ्यात्वमेति नान्यतरा मतिः । न हयन्योन्योपमर्देन बुद्धिद्वितयसम्भवः ॥ तथा चाह,
यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः । चित्रत्वाद्वस्तुनोऽप्येवं भेदाभेदावधारणम् ।। इत्येवमविरोधेन भेदाभेदावधारणात् । उभयात्मकतैवास्तु वस्तूनां भट्टपक्षवत् ॥ एतत्तु वृत्तिविकल्पादिभ्यो बिभ्यतेवाभ्युपगतं तत्रभवतेति तिष्ठतु तावत् किमत्र विमर्देन ।
व्यक्तिव्यतिरिक्ताया जातेः समर्थनम्
[ पञ्चमम्
व्यतिरिक्तैव जातिर्व्यक्तिषु वर्त्तत इति ब्रूमः ।
यच्च वृत्तिविकल्पादिदूषणं तत्र वर्णितम् । तत्प्रत्यक्षमहिम्नैव सर्वं प्रतिहतं भवेत् ।।
ग्रहणम् ।
यत् तावद् अवादि, भेदेन कुवलयामलकादिवदनवभासनादिति, तत्र प्रतीतिभेदो दर्शित एव ।
वेदान्तवादिशाक्यौ । वेदान्तवादिनो हि सामान्यात्मकमेव वस्त्विच्छन्ति, शाक्यास्तु विशेषात्मकमिति ।
यथा कल्माषवर्णस्येति । शबलवर्णस्य । यथेष्टं वर्णनिग्रहः निष्कृष्टस्य वर्णस्य