________________
10
२४२ न्यायमञ्जऱ्यां
[ सप्तमम् दुरुपपादः । परोत्पत्तावव्याप्रियमाणमेव यदि कारणमुच्यते सर्वं सर्वस्य कारणं स्यात् ।
न चालब्धात्मनस्तस्य व्यापारः परजन्मनि ।
लब्धात्मनस्तु व्यापारे स्थितिः सिद्धा क्षणान्तरे।। 5 अथ ब्रूयादिदंप्रतीत्येदं प्रतीयते इतीदं प्रत्ययतामात्रमेव कार्यकारणभाव
इति, तथापि लब्धात्मनः क्षणस्य प्रतीतिरिति द्वितीयक्षणावस्थानमपरिहार्यमेव ।
न चानन्तर्यमात्रेण कार्यकारणताग्रहः । अहेतुफलभावेऽपि तथानन्तर्यदर्शनात् ।। व्यापारस्तु परोत्पत्तौ नास्त्येव क्षणभङ्गिनः ।
न वर्तमानकालस्य न भूतस्य न भाविनः ॥ अथ मन्येथा यथा तुलान्तयो मोन्नामौ भवतः एवं पूर्वोत्तरयोः क्षणयो शोत्पादावित्येवं पूर्वक्षणविनाशेनोत्तरक्षणनिर्वृत्तेरियतैव कार्यकारणभावमश्नुवीयातामिति । तदप्यमनोरमम् । न ह्ययमायुष्मतामस्त्यवधृतस्तुलान्तदृष्टान्तः ।
तत्रान्यदेव हेमादि नामोन्नामनिबन्धनम् ।
तन्नामो न तु नामैव तेन वा स विधीयते ॥
इहापि न पूर्वेण क्षणेन नापि तद्विशेषेणोत्तरः क्षण उत्पद्यते, न च - हेमस्थानीयमिहान्यदस्तीत्यनुत्पत्तिरेवावशिष्यते । 20
सर्वथा परनिष्पत्तौ निर्व्यापारं न कारणम् । सव्यापारस्य कर्तृत्वे क्षणिकत्वन्तु दुर्घटम् ॥
15
इदं प्रतीत्येति । इदं प्रतीत्य ज्ञात्वा समनन्तरमेवेदं प्रतीयत इत्येतावन्मात्रं पूर्वोत्तरभावित्वं कार्यकारणत्वहेतुः, न पुनर्व्यापारात् कारणत्वमिति । इदं पूर्वमिदमुत्त
रमित्येवंरूप इदंप्रत्ययो ययोः कार्यकारणयोस्ताविदंप्रत्ययौ, तयोर्भाव इदंप्रत्ययता। 25 तथापि लब्धात्मन इति । न ह्यनुत्पन्नस्य प्रतीतिः सम्भवति । सर्वस्य सुखदुःखादि यत्