________________
आह्निकम् ] प्रमेयप्रकरणम्
२३९ इति पूर्ववद्वक्तव्यम्, लोचनालोकमनस्कारादिकारणभेदात् । कार्यमप्येकरूपं ज्ञानमिति चेत्, न, तस्य भवन्मते विषयाकारग्राहकत्वस्वसंवेदनरूपभेदात् । निराकारज्ञानवादिनो हि बौद्धस्य प्रतिकर्मव्यवस्थानमिष्यते जनकस्य कर्मणः प्रतिभासे स्थैर्यप्रसङ्गादेकसामग्रयधीनत्वपक्षस्यासम्भवात्, सम्भवेऽपि ग्राह्यनिमित्तत्वाभावादिति । ____ अथोच्यते । किमनभ्युपगतपक्षोपमर्दनेन बहुभ्यो बहुसम्भव इत्येष एव नः पक्षः, सन्तानवृत्त्या वर्तमानपूर्वसामग्रीसारूप्यमुत्तरसामग्रीमारभते विजातीयकरणानुप्रवेशे तु विरूपमिति ।।
अथ केयं सामग्री नाम ? न समग्रेभ्यो भिन्नात् पृथगनुपलम्भाद् अव्यतिरेके तु समग्र एव सामग्री। तत्र पूर्वसमुदायेनोत्तरसमुदायारम्भे तदन्तर्गतं 10 समुदायिनमेकमेव एक उत्पादयेदेकं वा सम्भूयेति । तत्राद्ये पक्षे सैवेयमेकस्मादेकोत्पत्तिरुक्ता स्यात्, सा च प्रतिषिद्धा ।
___ अथैकैकफलसमुदायिनिष्पत्तौ सर्वसमदायिनं व्यापारयेत्, क्रमेण वा यौगपद्येन वा ? तत्र क्रमपक्षे क्षणिकत्वहानिः, ये हि तत्र पञ्चदश समुदायिनः क्षणं तत्र वर्तन्ते, ते तत एकं तमुत्पाद्य पुनरपरमारभेरन् पुनरन्यमिति 15 तावत्कालप्रतीक्षणादक्षणिकत्वम् ।
अथ युगपदेव सर्वनिष्पत्तौ सर्वे व्याप्रियन्ते, तर्हि निकुरुम्बरूपादेव कारणादुत्पन्नमिति कारणविवेकनियमाभावाद्रूपरसादिप्रविभागो न स्यात् । विषयाकारग्राहकेति । विषयाकारो ग्राह्याकारः । ग्राह्याकारग्राहकं प्रमाणम् । स्वसंवेदनं फलम् । निराकारत्वाद् विज्ञानस्य नास्ति विषया- 20 कार इति चेत् तत्राह निराकारज्ञानेति । अथ नीलेन जनितत्वाद् नीलस्येदमिति प्रतिकर्मव्यवस्था सेत्स्यति । नेत्याह जनकस्य कर्मण इति । एकसामग्रयधीनपक्षस्य च सम्भवेऽपोति । न सम्भवति स पक्षः, क्षणिकत्वाभावादर्थक्षणस्य तदानीमुत्पत्त्यभावात् पूर्वोत्पन्नस्यैव ज्ञानेन विषयोकरणात् । सम्भवाभ्युपगमे तु द्वयोरेकसामग्र्युत्पन्नत्वेऽर्थ एव ग्राहो न बोध इति नियमो नोपपद्येत इत्यतोऽवश्यं साकारत्वमभ्युपेयमिति रूपभेद 25 आयातः।
विजातीयप्रकारेणेति । विजातीयो मुद्गरादिः । विरूपाम्, कपालरूपाम् ।