________________
२३५
आह्निकम् ]
प्रमेयप्रकरणम् नन्वविच्छिन्नदृष्टीनां न हि त्रुट्यदवस्थितिः ।
स्तम्भादिरवभातीति कथमेतस्य भङ्गिता ॥ मैतदेवम् । तत्राप्येकक्षणवृत्तित्वाज्ज्ञानस्य, क्षणान्तरे तु ज्ञानमेव नास्ति । कस्य विच्छिन्नसत्ता, कस्यात्रुटितसत्ता, कस्य वा बोधकम् ?
नन्वस्त्येव क्षणान्तरे तु ज्ञानमविच्छिन्नत्वाद् दृष्टेरिति चेत् । मैवम्, 5 बुद्धेरदीर्घकालत्वाज्ज्ञानान्तरोत्पादन एवासावित्यवधारयत्वायुष्मान् । .
तस्माद्ययैव सन्तानवृत्त्या ज्ञानक्षणोदयः ।
तथैवोत्पाद्यतामेष स्तम्भक्षणपरम्परा ।। .. सोऽयमविच्छिन्नदृष्टीनामत्रुटितपदार्थसत्ताग्रहणाभिमान इत्थमुत्थितः । स्थिरेणापि न बोधेन दीर्घग्राहस्थितिग्रहः ।
10 न ह्यसन्निहितग्राहि प्रत्यक्षमिति वर्णितम् ।। तत्काले सन्निधिर्नास्ति क्षणयोर्भूतभाविनोः । वर्तमानक्षणश्चैको न दीर्घत्वं प्रपद्यते ॥ तेन बुद्धिस्थिरत्वेऽपि स्थैर्यमर्थस्य दुर्वचम् ।
न त्वनन्तरया नीत्या तस्या अपि चिरं स्थितिः ॥ ___15 सापि हि स्वसंवेद्यत्वादेकक्षणपरीतैव प्रकाशत इति तस्मात् क्षणिकग्राहि प्रत्यक्षमिति सिद्धम् । पदार्थानां क्षणिकत्वेऽनुमानमबाधकम्
ननु स्थैर्य पदार्थानामनुमानात् प्रतीयते । अन्वयव्यतिरेकाभ्यां मुद्गरादिविनाशकः ॥
20
15
बुद्धेरदीर्घकालत्वात् । भवद्भिरप्याशुतरविनाशित्वाभ्युपगमाद् बुद्धेः ।
स्थिरेणापि न बोधेनेति । तेनापि वर्तमानकालस्थितिरिव शक्या ग्रहीतुं न कालान्तरस्थितिः । कालान्तरस्थितिहि तेन गृह्यमाणा तदनुप्रवेशेनान्यथा वा गृह्येत । तदनुप्रवेशेन ग्रहणे एकक्षणग्रहणमेव । अननुप्रविष्टक्षणस्थितेन क्षणान्तरस्थितिः प्रतिभातोति नैकताग्रहः । न हि सकृदनेकक्षणस्थायिताग्रह इति ।
25