SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २१५ आह्निकम् ] प्रमेयप्रकरणम् न भवेत् परिपोषो हि दधिक्षीरादिभक्षणे । काञ्चनाद्य पयोगेन दृश्यते तस्य रक्तता ॥ क्षीणैरवयवैः कैश्चित् कैश्चित् त्वभिनवोद्गतैः । अभिन्न एवावयवी कथं भवितुमर्हति ॥ बाल्यादिशरीरभेदसाधकं पोलुपाकवादिमतम् तथा च केचित् पच्यमानस्य घटादेरपि प्रागवस्थाविसदृशरूपादियोगिनः पाककारणभूतवेगवदग्निद्रव्यसंयोगपर्यालोचनयैव प्रलयोदयौ कल्पितवन्तः । ___ यद्यपि कन्दुकनिक्षिप्ता घटादयस्तृणपर्णादिपिहितवपुषोऽपि तद्विवरप्रसृतेन नयनरश्मिना न विनष्टा इत्युपलभ्यन्ते, यद्यपि तत्संख्या तत्परिमाणं 10 तत्सन्निवेशस्तद्देशाश्च पक्वा अपि दृश्यन्ते, यद्यपि ततो विभक्ता न विभाव्यन्ते, ततस्तेषां कादिकारणकलापासम्भवात् पुनर्घटनमघटमानमिव लक्ष्यते; तथापि तेषामनुमानेन विनाशः परिकल्प्यते, सर्वावयवेष्वन्तबहिश्च पाकपूर्वकपूर्वरूपादिविलक्षणगुणोपलब्धेरन्तः प्रवेशः कृशानोरनुमीयते; तेन वेगवता वह्निद्रव्येण नोदनादभिघाताद् वा नूनं घटाद्यारम्भकेष्ववयवेषु 15 क्रिया जायते, क्रियातो विभागः, विभागाद् द्रव्यारम्भकसंयोगविनाशः, तद्विनाशाद् द्रव्यविनाश इति । अनुप्रवेशपक्षेऽपि सूक्ष्मविवरपरिकल्पनादवश्यमवयवसंयोगविघटनं घटादेरिति विनाश एव । अपि च पाकानन्तरं कन्दुकादपकृष्यमाणाः पिठरादयः केचित् स्फुटिताः केचिद् वक्रतां गताः, केचित् सन्निवेशान्तरमेव प्रतिपन्ना दृश्यन्ते । तस्मादपि पश्यामो नश्यन्तीति, 20 तत्संख्यत्वादिति सर्वमनैकान्तिकं सूच्यग्रविद्धकण्ठकोणैः कुम्भादिभिः, पूर्वोक्त स्यात् । न भवेत् परिपोषः विनाशानभ्युपगमे। सर्वस्मिन्नेव हि शरीरे विनष्ट आरम्भकाणामवयवानामाहारभूतदध्यादिसारावयवसहितानामारम्भकत्वे स्थूलशरीरनिष्पत्तौ पुष्ट्यर्थानां दध्यादीनामुपयोगस्य साफल्यम् । शरीरस्य प्राक्तनस्याविनाशे चयाभावाद् आहाराभावाद् आहाराभावकृता रिक्ततापि न भवेत् । अनुप्रवेशपक्षेऽपीति । तेजःपरमाणवो ह्यविनष्टेऽपि घटे प्रविशन्तीति पिठरपाक ____25
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy