________________
आह्निकम् ] प्रमेयप्रकरणम्
२०५ नाधिकरण्यधीः शरीरालम्बनत्वस्य साक्षिणी न विरोत्स्यते ।
ननु ममेदं शरीरमिति भेदप्रतिभासात् कथमहंप्रत्ययः शरीरालम्बनः स्यात् ? भोः साधो ! नैवंविधेषु प्रत्ययेषु विश्वास्यत्वमर्हसि ममात्मेत्यपि भेदप्रत्ययस्य दर्शनादवस्थाभेदादिना यथा तथा तत्समर्थनमास्थीयते तदिह शरीरालम्बनत्वेऽपि सैव सरणिरनुसरिष्यते । तस्मादहंप्रत्ययः शरीरालम्बन 5 एवेति । स च ज्ञानादिसमानाधिकरणो मिथ्या, स्थूलादिसमानाधिकरणस्तु सम्यगिति । ये तु मम शरीरं ममात्मेति च बुद्धी ते द्वे अपि मिथ्या ममप्रत्ययस्याहंप्रत्ययवदात्मानालम्बनत्वाच्छरीरं च भेदानुपपत्तेः
मम पाणिर्भुजो वेति भिन्नत्वादुपपद्यते । शरीरन्तु ममेत्येषा कल्पना राहुमूर्धवत् ।।
10 तस्मादहङ्कारममकारयोर्द्वयोरप्यविषयत्वादात्मा परोक्ष इति सिद्धम् । तत्र पूर्वपक्षविरसनम्
अपरे पुनराहुः । न ग्राह्यग्राहकरूपोभयसम्पत्तेरेकस्य कर्मत्वं कर्तृत्वञ्च युगपदात्मनो मन्यामहे; किन्तु चितिशक्तिस्वभावमपरसाधनमपरोक्षमात्मतत्त्वं प्रचक्ष्महे । न ह्यात्मा जन्येन ज्ञानेन घटादिरिव प्रकाशते, अपि तु स्वत 15 एव प्रकाशते । चेतनत्वमपि तस्य नैसर्गिकमेव, न करणोपजनितचितियोगनिबन्धनम् । चिद्योगाद्धि चेतनत्वे घटादावपि तत्प्रसङ्गः । न चास्ति
यदाहं जानामीत्येवं प्रत्यय उत्पद्यते तदा मिथ्यैवायं प्रत्ययः। न ह्यहमिति प्रतिभासमानस्य शरीरस्य जानामीति सम्बन्ध उपपद्यत इत्यर्थः ।
अवस्थाभेदादिना सुखाकारत्वाद्यवस्थाभेदमाश्रित्य ममात्मेति व्यतिरेकः । 20 शरीरालम्बनत्वेऽपि सैव सरणिः। ममेदं शरीरमित्यत्र ममेत्यनेन यौवनावस्थां परामृश्येदमित्यनेन वृद्धावस्थां निर्दिशति ।
चिद्योगाद् हि चेतनत्व इति । उत्पद्यमानया चिता ज्ञानेन यस्य सम्बन्धः स चेतन इति हि यद्युच्येत ततो घटस्यापि तयोत्पद्यमानया कारणत्वाविशेषात् सम्बन्धः केन वार्येतेति । अथात्मसम्बद्धैव सा उत्पद्यते न घटादिकारकान्तरसम्बद्धेति । तत्रा- 25