________________
आह्निकम् ]
प्रमाण प्रकरणम्
न च धात्वर्थेनैव धात्वर्थो व्यवस्थापयितुं शक्यते । लिङादयश्च सुतरामनधिगम्यमानविषयाः । ते हि विध्यादावर्थे विधीयन्ते । स च विधिरूपोऽर्थः स्वरूपतश्चोपाधितश्च न शक्यो निर्णेतुमिति ।
१७७
तथा कारकानुशासनमपि दुःस्थम् । " ध्रुवमपायेऽपादानम्" इत्युच्यते । तत्र ध्रुवस्य वृक्षादेर्वृक्षात् पतितो देवदत्त इति पतनक्रियायामवलग्नं कृशमपि न कारकत्वमुत्पश्यामः । क्रियायोगो हि कारकम् । स च वृक्षे नोपलभ्यत इति । सार्थाद्धीनो रथात् पतित इति सार्थं रथयोः क्रियोपलभ्यते । न वृक्षवन्निश्चलत्वमिति चेत्, सत्यम्। स्वरसप्रवृत्ता तयोरस्ति क्रिया हाने याने च । पादपनिर्विशेषावेव सार्थरथौ । न च यदेकस्यां कारकं तत् सर्वासु कारकं भवत्यतिप्रसङ्गात् ।
न्या० म० २३
5
10
भाष्यविरोधाद् भूतादीनाम् । तदपि च कुत: ? भाष्यविरोधादेव । तदा भयोर्धात्वर्थत्वम्, न चैकस्यैव विशेषणविशेष्यभाव उपपद्यते । तदाह न च धात्वर्थेनैव धात्वर्थ इति । यदि हि प्रत्ययेन भूतादिनं प्रतिपाद्यते, अपि तु धातुनैवेति मतं तदानीं क्रियावत् कालोऽपि धात्वर्थः प्राप्नोति । न च स एव धातुवाच्यः कश्चित् क्रियारूपो व्यवस्थाप्यो विशेष्यः कश्चिच्च व्यवस्थापको विशेषणकालः; एकशब्दवाच्यस्य द्वैरूप्यादर्शनात् । दण्ड्यादौ हि दण्डशब्देन विशेषणं दण्डः प्रतिपादितः, इना तु विशेष्यः पुरुषो न तूभौ दण्डशब्देनैवेति । स च विधिरूपोऽर्थः स्वरूपत इति । विधिशब्देन तैः प्रेषः प्रतिपादितः, तत्र विधिनिमन्त्रणामन्त्रणाधीष्टेष्वपि चतुर्ष्वपि प्रेरणारूपस्यानुगमात् कथं निश्चीयेत अयं प्रैषः, इदं निमन्त्रणम् इत्यादि । अथोपाधिभेदात् तेषां भेदो व्यवस्थाप्यते । ते च समहीनज्यायोमनुष्यप्रतिपादकपदविशेषा उपाधयः, तद्वशादयं प्रेषे लिङादिर्व्यवस्थाप्यत इति । यदि चैवं तेषामर्थो व्यवस्थाप्यते तवं व्यवस्थाप्यमानो योऽर्थः पदान्तरसन्निधानवशात् स तेषामर्थो न भवति । यथा 'अश्वमानय गमिष्यामस्तेन' इति पदान्तरयोगाद् योऽश्वार्थो लब्धः, स यथा अश्वशब्दार्थो न भवति तद्वदिति ।
यदेकस्यां क्रियायां कारकमिति । न हि गमेः कर्ता पचतीत्यत्र 25
प्रतीयते ।
15
20