________________
१६८ न्यायमञ्ज
[ षष्ठम् ___अपि च विधिफलः सर्वत्र विधिनियमो भवति, ऋतावुपेयादित्यादि । निषेधफला तु परिसङ्ख्या, पञ्च पञ्चनखा भक्ष्या इति । तदयमपशब्द प्रयोगप्रतिषेधफलश्च नियमश्चेति व्याहतमभिधीयते । परिसङ्ख्या तहि भविष्यतीति
चेन्न, शब्दापशब्दयोर्युगपत् प्राप्त्यभावात् । “तत्र चान्यत्र च प्राप्तौ 5 परिसङ्ख्याभिधीयते'' इति न्यायात् ।
यदपि पुण्यपापफलत्वं शब्दापशब्दप्रयोगस्येति गीयते, तदपि न पेशलम्, परिदृश्यमानमविवादसिद्धार्थप्रत्ययजननमपहाय परोक्षस्यादृष्टस्य पुण्यपापात्मनः कल्पनानुपपत्तेः । यश्चायम् ‘स्वर्गे लोके कामधुग् भवति' इति साधुशब्दस्तुत्यर्थवादः, यश्च ‘स वाग्वज्रो यजमानं हिनस्ति' इत्यपशब्दे निन्दार्थवादः, तत्र परार्थत्वस्य विस्पष्टदृष्टत्वादर्थवादमात्रपर्यवसितौ च । “द्रव्यसंस्कारकर्मसु पदार्थत्वात् फलश्रुतिरर्थवादः स्यात्' इति न्यायान्न फलार्थतेति । तदेवं साधुभिर्भाषितव्यमसाधुभिर्नेति विधिनिषेधयोरनारभ्याधीतयोः श्रूयमाणयोरपि दौस्थित्यात् तन्मूलतया लब्धप्रमाणभावा व्याकरणस्मृतिरङ्गतामेष्यति
वेदस्येति दुराशैव । प्रकरणविशेषपाठे तु तयोस्तदुपयोगादेव न सार्वत्रिकी 15 नियमार्थतेति सर्वथा न व्याकरणे तन्मूलत्वम् ।
10
ऋतावुपेयादिति । अस्य हि ऋतावुपगमोऽवश्यकर्तव्य इत्यर्थः, न तु अनृतुगमनप्रतिषेधः, 'पर्ववजं व्रजेच्चैनाम्' इत्यादिना विरोधात् ।
तत्र चान्यत्र च प्राप्तेः इत्यस्य पूर्वमर्धम् – “विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति" इति ।
यश्चायं स्वर्गे लोके इति। “एक शब्दः सम्यक् प्रयुक्तः स्वर्गे लोके कामधुग् भवति"।
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ इति स्तुतिनिन्दावाक्ये । परार्थत्वस्य अर्थप्रत्यायनार्थत्वस्य ।