________________
१६०
न्यायमञ्ज
[ षष्ठम् प्रत्ययार्थोऽभिधीयते, नियोगस्य धातुवाच्यत्वात् । न च प्रत्ययेन प्रकृर्थोऽभिधीयते यागालिङ्वाच्यत्वानुपपत्तेः । न च तौ पृथक् पृथक् स्वकार्यं कुरुतः ।
एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्यं करिष्यन्ति । न च परस्परमर्थमभिधास्यन्ति । वाक्यान्यपि प्रकरणपतितान्येवमेव । तदुक्तम्,
प्रकृतिप्रत्ययौ यद्वदपेक्षेते परस्परम् ।
पदं पदान्तरं तद्वद् वाक्यं वाक्यान्तरं तथा ॥ इति । अयमेव च पक्षः श्रेयान् यत् संहत्यकारित्वं पदानामसङ्कीर्णार्थत्वञ्च ।
निरपेक्षप्रयोगेऽयश्शलाकाकल्पना भवेत् । तदन्विताभिधाने तु पदान्तरमनर्थकम् ॥ संहत्यकारिपक्षे तु दोषो नैकोऽपि युज्यते । तेनायमुपगन्तव्यो मार्गो हि हतकण्टकः ॥ अभिधात्री मता शक्तिः पदानां स्वार्थनिष्ठता । तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः ॥ तेनान्विताभिधानं हि नास्माभिरिह मृष्यते ।
अन्वितप्रतिपत्तिस्तु बाढमभ्युपगम्यते ॥ संहत्यकारकत्वाच्च पदानां न स्वार्थाभिधित्सयैव समुच्चारणम्, अपि तु प्रधान कार्यमेव कर्तुम् । तदुक्तम्,
वाक्यार्थप्रत्यये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥ इति । सेयं व्युत्पत्तिमूला पदविसरसमुद्भिद्यमानाकुरश्रीः संस्कारोदारपत्रा कुसुमचयवती प्रोल्लसद्भिः पदार्थैः । प्रज्ञावल्ली विशाला फलति फलमिदं स्वादुवाक्यार्थतत्त्वैः नैराकाक्ष्यं लसद्भिहृदयमुपगते यान्ति यस्मिन् पुमांसः ॥
सेयं व्युत्पत्तिमूलेति । पदानां या स्वार्थे व्युत्पत्तिः सङ्केतग्रहणं सैव मूलम्, तत उद्भूतेः । पदविसरात् पदसमुदायात् समुद्भिद्यमाना प्रकटीभवन्ती अङ्कररूपाद्यवस्था यस्याः, पदानां तत्प्रतिपत्तिकारणत्वाव्यभिचारात् । संस्कारश्च पदार्थप्रतिपत्तौ सन्निकृष्टोपायत्वात् पत्रतया रूप्यते । पदार्थैः कुसुमचयवती, पदार्था एव कुसुमचयः पूर्वापेक्षया फलं प्रतिपत्तिः आसन्नत्वात् ।