________________
प्रमाणप्रकरणम्.
आह्निकम् ]
१२९ श्रोत्रग्राह्यत्वं शब्दलक्षणं सत्तादावप्यस्तीति चेत्, न, श्रोत्रेणैवेत्यवधारणस्य विवक्षितत्वात् । श्रोत्रमनोभ्यां ग्रहणादसिद्धमवधारणमिति चेत्, न, समानजातीयव्यवच्छेदार्थत्वादवधारणस्य विवक्षितत्वात् । चक्षुरादीन्येव तेन व्यवछिद्यन्ते, न मनः । तथापि शब्दत्वेन व्यभिचार इति चेत्, न, जातिमत्त्वे सतीति प्रक्रमलभ्यविशेषणापेक्षणात् । स्तनयित्नुनादप्रभृतिभिरपि न 5 व्यभिचारः, तेषां शब्दत्वाभ्युपगमात् । तदुक्तं भाष्यकृता "द्विविधश्चायं शब्दो वर्णात्मा ध्वनिमात्रश्च'' इति । अर्थप्रत्यायकत्वं तु न लक्षणमित्युक्तम्, अगहीतसम्बन्धे वर्णात्मनि शब्दे तदभावेनाशब्दत्वप्रसङ्गात् । कालान्तरेण सम्बन्धबुद्धौ सत्याञ्च शब्दत्वमित्यव्यस्थितमिदं लक्षणम् । - यदपि शब्दस्वरूपनिरूपणप्रसङ्गेन तदभिधेयानां जातिगुणक्रियादीनां 10 शब्दत्वाशङ्कनं तत्परिहरणञ्च, तदपि किमाशयमिति न विद्मः, तेषामतिविभक्तरूपग्रहणात् । अतः श्रोत्रग्राह्यस्य शब्दत्वात् स्फोटस्य च श्रोत्रग्राह्यत्वाभावाद् वर्णवादिनामेव शब्दादर्थं प्रतिपद्यामह इत्यनुकूलो व्यपदेशः, न स्फोटवादिनामिति स्थितम् । ___कथं पुनः श्रोत्रग्रहणत्वं स्फोटस्य न मृष्यते ? यतः पदं वाक्यमिति 15 श्रोत्रकरणमेकाकारं ज्ञानं प्रत्यात्मवेदनीयमस्ति । न चास्य वर्णा आलम्बनीभवेयुरित्युक्तम् । न युक्तमुक्तम् । इह हि शाबलेयादौ प्रतिपिण्डं गौरिति बुद्धिरुपजायमाना सकलपिण्डसाधारणं रूपं विषयीकरोतीति गोत्वसामान्य तदिष्यते । एवं यदि प्रतिवर्णं पदं पदमिति, वाक्यं वाक्यमिति मतिरुपजायेत जातिवत्, तर्हि पदं वाक्यञ्च सर्ववर्णवृत्ति किमपि रूपमभ्युपगच्छेम । न 20 त्वेवमस्ति प्रतीतिः, यथा च तन्त्वाद्यवयवपरिघट्टितपटादिकार्यविषयमाद्यनयनसन्निपातसमय एव भेदग्रहरहितमवयविज्ञानमुदेति, तथा क्रमसमुच्चरदेकैकवर्णस्वरूपोपग्रहनिरपेक्षं यदि पदमिति वाक्यमिति ज्ञानं भवेत, तत्पटादिकमवयविनमिव पदं वाक्यमेकैकरूपमनुमन्येमहि, न त्वेवमस्ति । न हि तन्तुभिरिव पटो वर्णैः पदमारभ्यते ।
यत्तु गौ¥रित्येवं ज्ञानमभेदग्राहि दृश्यते, तदेकाजुपाधेः। भिन्नाजुपश्लेषे तु देवदत्त इत्यादौ नानाक्षरग्रहणमेव विलम्बितमनुभूयते । न चैवं पटादि
न्या० म० १७
25