________________
आह्निकम् ]
क्रमः क्रमवतामङ्गमिति किं युक्तिसाध्यता । धर्ममात्रमसौ तेषां न वस्त्वन्तरमिष्यते ॥ इति । तस्माद् ये यावत्क्रमका यमर्थं प्रत्याययन्तो दृष्टा वर्णास्ते तत्क्रमका वर्णास्तमर्थं प्रत्याययिष्यन्तीति न स्फोटादर्थावगतिरिति । तदेवं न कार्यानुमानमर्थापत्तिर्वा स्फोटसिद्धये प्रभवतीति सिद्धम् ।
न वा स्फोट: प्रत्यक्षः
प्रमाणप्रकरणम्
१२७
यदप्यभाणि, शब्दादर्थ प्रतिपद्यामह इति व्यवहारः स्फोटपक्षसाक्षितामेवावलम्बत इति, तदप्यसारम् । वर्णानां वाचकत्वे यथोक्तनीत्या साधिते तत्पक्षेऽपि तथा व्यवहारोपपत्तेः ।
ननु कथमुपपत्तिः ? संस्कारस्तावन्न शब्दशब्देनोच्यते । न हि तथा लोके प्रसिद्धिः । संस्कारे च वाचके व्युत्पत्तिरपि दुरुपपादा | परावगतिपूर्विका हि शब्दात् स्वावगतिर्न च परस्थः संस्कारः परस्य प्रतीतिमुपजनयन् ग्रहीतुं शक्यः, परोक्षत्वाद् । वर्णेष्वपि शब्दशब्दो वर्तमान: प्रतिवर्णं वा वर्तेत, वर्णसमुदाये वा । प्रतिवर्णं वर्तमाने च शब्दे न शब्दादर्थं प्रतिपत्तिः स्यात्, एकस्य वर्णस्य वाचकत्वायोगात् । समुदाये तु न वर्तितुमर्हति 15 शब्दशब्दः, जातिशब्दत्वात् । द्विवचनबहुवचनान्त व्यक्तिशब्दप्रयोगे हि तत्सामानाधिकरण्येन न जातिशब्द एकवचनान्तः प्रयुज्यते । न हि भवति देवदत्तयज्ञदत्तौ पुरुष इति धवखदिरपलाशा वृक्ष इति, तथा गकारौकारविसर्जनीयाः शब्द इत्यपि ।
ननु वनशब्दवत् तर्हि समुदायवाची भविष्यति शब्दशब्दः, वनं वृक्षा न जातिशब्दवदिति चेन्न तत्र समुदायव्यतिरेकनिर्देशदर्शनादाम्राणां वनं कपित्थानां वनमिति, न चैवमिह व्यतिरेकनिर्देशोऽस्ति गकारादीनां शब्द इत्यदर्शनात् ।
5
अथ ब्रूयादाम्रादयो वनमित्यभेदेनापि वनशब्दः प्रयुज्यते, तथेहापि गकारादयः शब्द इति प्रयोक्ष्यते, एतदपि नास्ति, वनादौ भेदव्यपदेशवशेन प्रतिव्यक्ति चाप्रयोगेण प्रसिद्धे समुदायशब्दत्वे समुदायिनोरभेदोपचारादाम्रादयो वनमिति युज्यते प्रयोक्तुम्, इह तु गकारादीनां शब्द इति न
10
20
25