SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम आह्निकम् ] १२१ दर्शपूर्णमासाभ्यामितीतरेतरयोगशंसिना द्वन्द्वन समर्पितसाहित्यानामाग्नेयादियागानां पक्षद्वयप्रयोज्यत्वेन चापरिहार्यक्रमाणामेकाधिकारसम्पादकत्वं दृष्टम् । तथा 'ऐन्द्रवायवं गृह्णाति' 'आश्विनं गृह्णाति', इति सोमग्रहणाभ्यासानां समस्तानां क्रमभाविनाञ्चैकप्रधाननिर्वर्तकत्वं दृष्टमिति । अतश्च नायं विरोधः सामस्त्यञ्च क्रमभावित्वञ्चेति । एवं क्रमवर्तिनोऽपि वर्णा एवार्थाभिधायिनो 5 भविष्यन्ति । स्फोटस्य नानुमानिकत्वम् ___ ननु ग्राससंस्थादीनां युक्तं समस्तानां क्रमभावित्वम्, यतः कार्यमपि तदीयं तृप्त्यादि क्रमेण निर्वर्त्यमानं दृश्यते । यद्येवमाग्नेयादिभ्यस्तहि क्रमेण निवर्त्यमानं किं कार्यमुपलभ्यते ? अवान्तरापूर्वमिति ब्रूमः, शब्द- 10 प्रामाण्यात् । परमापूर्वनिर्वृत्तिस्तु तेषां सामस्त्ये सति सेत्स्यतीत्युच्यते । अवान्तरापूर्वनिर्वृत्ताविदानी क्रमभाविनामाग्नेयावयवभूतक्रियाक्षणानां किम पक्षद्वयप्रयोज्यत्वेनेति । दशैं हि त्रयः प्रयुज्यन्ते पूर्णमास्याञ्च त्रय इति । तथैन्द्रवायवं गृह्णातीति। सोमेन यजेतेति उक्तम् । तत्र कथं यजेतेत्यपेक्षायां 'ऐन्द्रवायवं ग्रहं गृह्णाति' 'आश्विनं ग्रहं गृह्णाति' इत्यादयः सोमग्रहग्रहणाभ्यासा उक्ताः। 15 सोमरसो विशिष्टपात्रस्थः सोमग्रहस्तस्य देवतोद्देशेन यदादानं तद् ग्रहणम्, तेषां ग्रहणानां विशिष्टदेवतोद्देशेन बहूनां यानि सम्पादनानि तान्येव कृतस्य ग्रहणस्य पुनःकरणरूपतया अभ्यासाः । न ह्यभ्यासं विनासौ सोमरस ऐन्द्रवायवमकृत्वा आश्विनः कर्तुं शक्यत इति, ते च क्रमभाविनः । ऐन्द्रवायवो हि तदा भवति यदेन्द्रवायुभ्यां सङ्कल्प्यते, सङ्कल्पश्च न यागं विना भवतीति प्रकृत्यंशो यागः; स च क्रमेण निर्वय॑मानोऽपि ज्योतिष्टोमाधि- 20 कारलक्षणं प्रधानाधिकारं निवर्तयतीति । अवान्तरापूर्वमिति । भट्टपक्षेऽवान्तरापूर्वं शक्तिरूपम् , प्रभाकरमते तु अवान्तराग्नेयादिनियोग एव । कुतस्तस्यानुपलभ्यमानस्य कल्पनेति चेत्, तदाह शब्दप्रामाण्यादिति। आग्नेययागस्य क्रियारूपत्रात् क्षणिकत्वेनान्यप्रधानयागकालेऽनवस्थितत्वेन फलनिर्वृत्तौ सहकार्ययोगात् तत्करणं निष्फलमेव प्रसज्येत । न च निष्फलं प्रमाणभूतशब्द 25 उपदिशतीति तत्कल्पनम् । आग्नेयावयवभूतक्रियाक्षणानामिति । चतुरो मुष्टीनिर्वपतीति वीहीनवहन्ति तन्दुलान् पिनष्टीत्यादय आग्नेययागावयवाः क्रियाक्षणाः । न्या० म० १६
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy