________________
११३
आह्निकम् ]
प्रमाणप्रकरणम् एव एष स्फोटोऽभिव्यज्यमानस्ताल्वादिस्थानकरणसंयोगोपाधिवशोपप्लवमाननानाकारगकारादिभागयोगीव प्रतिभासते। मरुतां चञ्चलत्वादुच्चारितप्रध्वंसिनस्ते तं काल्पनिकाकारमवभासयन्ते । दृष्टञ्चोपाधिवशादसत्यमपि रूपमवभासमानं यथा कृपाणमणिदर्पणादिव्यञ्जकभेदेन श्यामदीर्घादिरूपं वदनस्य । नादात्मको हि शब्दो वीणावेणुमृदङ्गपटहादिव्यञ्जकभेदेन नानात्व- 5 मुपगच्छन् दृश्यते । तस्मान्न पारमार्थिका एव ते वर्णाः, न च स्फोटस्य व्यञ्जका इति क्व समस्तव्यस्तविकल्पाः प्रभवेयुः ?
उपाधिभेदेन प्रतिभासमाना असत्याकाराश्च तेऽर्थप्रत्ययान्वयव्यतिरेकानुविधायिनो दृश्यन्ते । तेन यदुच्यते शब्दकल्पनायां कल्पनाद्वैगुण्यमिति तत्रैकगुणापि कल्पना नास्ति का कथा द्वैगुण्यस्येति ?
10 ____ तस्मात् स्फोटात्मकादेव शब्दादर्थप्रत्ययो वर्णानुविधायित्वन्तु तस्यान्यथासिद्धमिति सिद्धम् । स्फोटस्य प्रत्यक्षत्वम् ___ अपि च तार्किकाणामनुमानप्रियत्वात् तत्परितोषायेदमनुमानमभ्यधायि न परमार्थतः । परमार्थतस्तु श्रौत्रे प्रत्यये प्रतिभासमानः प्रत्यक्ष एव स्फोटः। 15 ___ आह, किमिदमपूर्वं तस्कराचरितं वर्तते । वर्णाः प्रत्यक्षमुपलभ्यमाना अपि दुर्भगा न प्रत्यक्षाः, स्फोटः पुनरनवभासमानोऽपि सुभगः प्रत्यक्ष इति । __उच्यते। न ब्रूमो वर्णा न प्रत्यक्षा इति। ते पुनरसन्तोऽपि उपाधिवशाद् वदनदैर्ध्यादिवदवभासन्ते। शब्दस्त्वेको निरवयवः प्रतीयते । तथा च पदमिति वाक्यमित्येकाकारप्रतीतिरस्ति । न च भिन्ना वर्णास्तस्यामालम्बनी- 20 भवन्ति । न हि सामान्यप्रत्ययो व्यक्त्यालम्बनः, अवयविप्रत्ययो वा अवयवालम्बनः । न च सेनावनादिबुद्धिवदयथार्था पदवाक्यबुद्धिः, बाधकाभावात् ।
नानाकारगकारादिभागयोगीवेति । कथमिति चेत्, तदाह ताल्वादिस्थानकरणेति । वायूनां यो विशिष्टैः स्थानकरणैः संयोगः, स एवोपाधिस्तथाविधोपप्लुतरूपप्रदर्शकः । नादात्मकोऽपीति । नादात्मकोऽवाचकः ।
न्या० म० १५