________________
आह्निकम् ]
प्रमाणप्रकरणम्
१११
एको निष्क्रमक इति न वर्णपक्षक्षपणदक्षदूषणपात्रतां प्रतिपद्यते । अतश्च स्फोटोऽर्थप्रतिपादकस्तत्र शब्दादिति प्रातिपदिकार्थोऽप्युपपन्नः ।
अथ वर्णाः 'शब्द' शब्देनोच्यन्ते, ते चार्थप्रतिपादका:, तथापि शब्दादित्येकत्वं विभक्त्यर्थो न सङ्गच्छते, शब्देभ्यः प्रतिपद्यामह इति व्यवहारः स्यात् । स्फोटात्मनि तु शब्देऽर्थप्रतिपादक इष्यमाणे शब्दादिति प्रातिपदिकार्थो विभक्त्यर्थश्च द्वयमप्युपपन्नम् ।
ननु न स्फोट : 'शब्द' शब्देनोच्यते ; किन्तु वर्णा एव । श्रोत्रग्रहणे ह्यर्थे ‘शब्द’शब्दः प्रसिद्धः, ते च श्रोत्रग्रहणा इति । नैतदेवम् । शब्दत्वस्यापि श्रोत्रग्रहणात्मनो निर्झरझाङ्काररवप्रभृतीनाञ्च सत्यपि श्रोत्रग्रहणत्वे शब्दकार्यनिर्वर्त्तकत्वानुपपत्तेः । तस्माद् यतोऽर्थप्रतिपत्तिः, स शब्दः । अर्थप्रतिपत्तिश्च स्फोटादेव न वर्णेभ्य इति स्फोट एव शब्दः ।
नन्वेवं सति धूमादीनामप्यर्थप्रतीतिहेतुत्वाच्छब्दत्वं प्राप्नोति ? मैवं वादीः, अथ गौरित्यत्र श्रोत्रजप्रतिभा से बहवोऽर्थाः प्रतिभासन्ते, तत्र कस्तेषां शब्द इत्युपक्रम्य यतोऽर्थप्रतिपत्तिः स शब्द इत्युपसंहृते कुतो धूमादीनां शब्दत्वशङ्कावकाशः ?
ननु चेयमर्थप्रतीतिर्वर्णेषु भवत्सु भवन्ती तेष्वभवत्सु चाभवन्ती तानुत्सृज्य कथं स्फोटकार्यतामुपयायात् ? उच्यते । अनन्यथासिद्धं तद्भाव
तयाऽन्यैरभिहितं तन्नाम्नो वा अस्याभिधाने न काचित् क्षतिरिति । वर्णपक्षक्षपणक्षमेति । किमेकैकः प्रत्यायकोऽथ संहता इत्यादि यदूषणम् । प्रातिपदिकार्थोऽप्युपपन्नः, संस्कारस्य शब्दशब्दवाच्यत्वाभावात् ; विभक्त्यर्थस्त्वेकत्वमेकत्वादुपपद्यते संस्कारस्येति ।
शब्दकार्यनिर्वर्तनानुपपत्तेः । शब्द्यते कथ्यतेऽनेनार्थ इति शब्दशब्दनिर्वचनसामर्थ्यादर्थप्रतीतिजनक एव शब्दः ।
अथ गौरित्यत्र श्रौत्रे प्रतिभास इति । भाष्यकृता हि 'अथ गौरित्यत्र कः शब्दः ' इत्युक्तम् । अस्य चार्थः, गौरित्यत्र ज्ञाने ये प्रतिभासन्ते जातिगुणक्रियावर्णस्फोटादयोऽर्थास्तेषु मध्ये कः शब्द इति । गौरिति ज्ञाने वर्णाः, वर्णाभिव्यङ्ग्यस्फोटः, तद्वाच्यजात्यादिः, तदेकार्थसमवेताश्व गुणक्रियादयः, प्रतिभासन्त एवेति ।
5
10
15
20
25