________________
प्रमाणप्रकरणम्
१०५
आह्निकम् ] त्वबाह्यविषयं तत् । यथा अवस्थिते वनितात्मनि बाह्येऽर्थे वासनानुसारेण कुणप इति, कामिनीति, भक्ष्यमिति प्रतिभा भवन्ति तथा शब्दार्थेऽपि व्याघ्रागमनेऽवगते शूराणामुत्साहः, कातराणां भयमित्यादि कार्यं भवति । न त्वेतावता प्रतिभा शब्दार्थो भवितुमर्हति । तस्माद् वाक्यप्रयोजनत्वेन वा यदि प्रतिभा वाक्यार्थः कथ्यते, कथ्यतां नाम, न त्वसौ शब्दस्याभिधेया। 5 अनभिधेयापि संसर्गवद् वाक्यार्थ इति चेत्, तत्राप्युक्तम्, संसृष्टा अर्था वाक्यार्थो न संसर्गः । एवमिहापि प्रतिभान्तोऽर्था वाक्यार्थो न प्रतिभेति । शब्दस्य प्रत्यक्षवद् वर्तमानार्थनिष्ठत्वाभावाद् अनागताद्यर्थाभिधायिनोऽ
सन्निधानेन प्रतिभापरत्वं यदुच्यते, तदप्ययुक्तम् । अनागतादिविषयत्वेऽपि तस्यार्थाविषयत्वं प्रसाधितमिति कृतं विस्तरेण ।
वाक्यार्थः परमार्थ एव तदयं नो कल्पनानिर्मितः तद्वानप्युदितः पदस्य विषयस्तेनार्थसंस्पर्शिता । अप्रामाण्यमतश्च ग्राह्यविषयाभावेन यद् वर्ण्यते तच्छब्दस्य निरस्तमित्यकलुषं प्रामाण्यमस्य स्थितम् ॥ इति न्यायमञ्जर्यां पञ्चममाह्निकम् ॥
15
वाक्यादुपजायमाना प्रतिभैव वाक्यार्थ इति । प्रतिभान्तोऽर्थाः । प्रतिभया वाक्यार्थज्ञानेन विषयीकृताः। ननु वाक्यजन्ये ज्ञाने यद्यर्थाः प्रतिभान्तीत्यभ्युपगम्यते तदातीताद्यर्थप्रतिपादके वाक्येऽर्थानामसत्त्वात् कथं वाक्यार्थज्ञानजनकत्वमित्याशक्याह शब्दस्य प्रत्यक्षवदिति ।
भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते
न्यायमञ्जरीग्रन्थिभङ्गे पञ्चममाह्निकम् ॥ न्या० म० १४
20