________________
१०२
न्यायमञ्जयां
[ पञ्चमम्
वाक्यस्वरूपविचारारम्भः
सिद्धतन्त्रं क्वचित् साध्यं तत्तन्त्रमितरत् क्वचित् ।
शब्दप्रयोगतात्पर्यपर्यालोचनया भवेत् ॥
तस्माद् गुणप्रधानभावानियमादन्योन्यसंसृष्ट: पदार्थसमुदायो वाक्यार्थ 5 इति । एतावदेव श्रेयः । संसर्गावगमे च सर्ववादिनामविवादः ।
वाक्यार्थं मन्वते येऽपि नियोगं भावनां क्रियाम् ।
तैरप्यन्योन्यसंसृष्टः पदार्थग्राम इष्यते ॥ ननु संसर्गवदन्यव्यवच्छेदोऽपि गम्यते, गौः शुक्ल आनीयतामिति श्रुते कृष्णादिभ्यो व्यवच्छिद्यते। अन्यापोहस्तु न पदार्थ इत्युक्तम्, तस्मान्न भेदो 10 वाक्यार्थः ।
ननु संसर्गोऽपि न शब्दार्थः । सत्यम् । स हि शब्दस्याभिधेयो न भवति, न तु ततो न प्रतीयते । अनभिधेयः कथं प्रतीयत इति चेत्, एतदने निर्णेष्यते । व्यवच्छेदे तु न सा गतिः । तस्मात् संसृष्टाः पदार्था वाक्यार्थ इति स्थितम् ।
अथ वा गुणीभूतेतरपदार्थानुगृहीत एक एव प्रधानभूतः पदार्थो वाक्यार्थ इत्येकाकारप्रतीतिबलादुपेयताम् । फलस्य वाक्यार्थत्वकथनम्
एकस्त्वयमसावर्थ इति न निर्णतुं शक्यते । यदि त्ववश्यमेकस्य कस्यचिदभिषेककलशो दातव्यस्तत् फलस्यैव दीयताम् । न हि निष्प्रयोजनं 20 किञ्चिद् वाक्यमुच्चार्यते ।
क्वचित् साक्षात् पदोपात्तं क्वचित् प्रकरणागतम् । क्वचिदालोचनालभ्यं फलं सर्वत्र गम्यते ।।
शुक्लगुणसंस्पृष्ट इति । ( अस्य प्रतोकस्य मूलेऽभावः । ) यदि ह्यन्यव्यवच्छेदस्तस्य नास्ति तदा शुक्लेनैव गुणेन संसर्गो न स्यादित्यार्थोऽसौ ।
क्वचित् प्रकरणागतम् । फलवत्प्रकरणे समाम्नानात् प्रयाजादिष्विव । क्वचिदालोचनालभ्यं विश्वजिदादाविव । नित्येषु विधिस्वरूपपर्यालोचनालभ्यम् ।
25