________________
आह्निकम् ]
प्रमाण प्रकरणम्
,
न सङ्ख्यारहितस्तत्र उपादातुं शक्यते श्रुतसङ्ख्यापरित्यागकारणाभावाच्चैकत्वविशिष्टः पशुरुपादीयत इत्युपादानशेषीकृतमेकत्वम् ।
वैकृतस्तु सौर्यादिविधिः प्राकृतमितिकर्त्तव्यताजातमाकर्षंश्चोदक इत्युच्यते ।
नियोगस्य वाक्यार्थत्वे सिद्धान्तः
तदिदमेकस्यैव भगवतो लिङर्थस्य प्रयोक्तृशक्तिखचितात्मनः प्रचुर - व्यापारवैचित्र्यमुपदर्शितमिति । अलमनया महामतिमानसविलासवत्या मीमांसार्थकथया । सोऽयमीदृशो नियोगो वाक्यार्थः ।
तस्य द्वादशलक्षण्यां तत्तद्रूपं प्रकाशितम् । तन्नेह लिख्यतेऽस्माभिर्ग्रन्थगौरवभीरुभिः ॥
८७
न सङ्ख्यारहितस्तत्रोपादातुं शक्यत इति । अपरिच्छिन्नस्योपादानासम्भवादवश्यमेको द्वौ बहवो वोपादीयन्त इति ।
तस्य द्वादशलक्षण्यां तत्तद्रूपं प्रकाशितमिति । किं किं प्रकाशितमित्याकाङ्क्षानिवृत्त्यर्थं दिङ्मात्रमुच्यते । प्रमाणलक्षणे तावत् तस्य नियोगस्य स्वातन्त्र्यप्रतिपत्त्यर्थं वेदस्य नित्यत्वेन प्रामाण्यं प्रतिपादितम् अर्थवादस्मृत्यादिनामधेयादिद्वारायातमप्रामाण्यं सर्वप्रकारं परिहृतम् । तथा हि नित्यत्वेन प्रमाणाद् वेदाद् योऽवगतो नियोगः, स न लौकिकः 'हरीतकीं भक्षयेद् विरेककामः' इति नियोगवद् विनियोगनिष्ठः, अपि तु स्वतन्त्र एवेति तत्र साधितम् । द्वितीयाध्याये भेदलक्षणे च क तस्य प्राधान्यं काप्राधान्यं काभेदः क वा भेदः कानि च तस्य भेदकानि प्रमाणानीति चिन्तितम् । तथा ह्याग्नेयोऽष्टाकपाल भवतीत्यादौ प्राधान्यम् । समिधो यजतीत्यादौ त्वप्राधान्यम् । आग्नेयोऽष्टाकपालो भवति, समिधो यजतीत्यादौ च भेदः । आग्नेयोऽष्टाकपालः, व्रीहीनवहन्तीत्यादौ त्वभेदः; उभयत्रैकस्य नियोगस्य साध्यत्वात् । तथा यजेत दद्याज्जुहुयादित्यादौ शब्दान्तरकृतो भेद इत्यादि । तृतीये शेषलक्षणे श्रुत्यादिप्रमाणषट्केन यः पदार्थानां विनियोगः पराङ्गत्वलक्षण प्रतिपादितस्तस्य परस्परान्वयरूपस्वरूपतिरस्कारेण योऽयमत्यन्तं पारार्थ्यलक्षण ऐदमर्थ्येनानुष्ठानपर्यन्तो विशेषस्तत्र नियोगस्यैव व्यापारः, अत एव 'नियोगगर्भो विनियोगः' इत्याद्युक्तम् । अतो यो मदीयो ममोपकारी स भवद्भिः श्रुत्यादिभिः प्रमाणैरैदमर्थ्यद्वारेण मयि समय नान्य इति तत्र चिन्तितम् । श्रुत्यादिप्रमाणस्वरूपञ्च
5
10
15
20
25