________________
७८
न्यायमञ्ज
[पञ्चमम् अत एव श्येनादेरधर्मत्वात् तत्र ह्यभिचरन्निति शत्रा शत्रं वैदिकेनोपायेन जिघांसुरधिकारी दर्शितः । तस्य न तत्र शास्त्रं प्रवर्तकम्, जानात्येवासौ मयैतत्कर्त्तव्यम्, उपायन्तु न वेदेत्येवमुपायमात्रमस्योपदिश्यते, श्येनं कुर्विति
न विधिः प्रभवति, जिघांसयैव तत्र प्रवृत्तत्वात् । अतः श्येनादेरधर्मत्वात् 5 तद्व्युदासार्थमर्थपदोपादानम्, 'चोदनालक्षणोऽर्थो धर्मः' इति ।
कामाधिकारेष्वितिकर्तव्यतांशे शास्त्रीया प्रवृत्तिः । यथोक्तम्, 'क्रत्वर्थो हि • शास्त्रादवगम्यते' इति । भावार्थमात्रस्य हि करणत्वमवगतमितिकर्तव्यतांशस्तु
न करणत्वावगतिवेलायामुपनिपतित इति । तत्र लिप्साया अभावाच्छास्त्रमेव प्रवर्तकम् । अत एवाग्नीषोमीयहिंसाया नाधर्मत्वम्, न हिंस्यात् सर्वभूतानीति
10 प्रवृत्तिपर्यन्ता प्रीतिलक्षणा फलनिबन्धनैव न वैधी। नन्वस्तु तत्र तत्र विषये
प्रोतिनिबन्धना लिप्सा, प्रवृत्तिः कथम्, इत्याह 'अविभक्तत्वात्' इति । प्रोत्या पुरुषार्थेन तत्साधनत्वात्, विषयस्याविभक्तत्वाद् अविभागेन व्यवस्थितत्वात् पुरुषार्थतैव । अतः पुरुषार्थनिबन्धनैव तत्रापि प्रवृत्तिरित्यर्थः ।
शत्रु वैदिकेनोपायेनेति । यथा 'शयाना भुञ्जते यवनाः' इत्यत्र सिद्धं 15 शयनं भुजिक्रियालक्षणत्वेन प्रतिपाद्यते एवं प्रागुत्पन्नाभिचारेच्छाधिकारं प्रति लक्षणत्वेनोपात्ता।
अतः श्येनादेरधर्मत्वादिति । अर्थपदे ह्यक्रियमाणे चोदनालक्षणत्वेन श्येनादेरपि धर्मत्वं प्राप्नोत्यनर्थस्य प्रत्यवायहेतोः, तन्निवृत्यर्थमर्थग्रहणम् ।
क्रत्वर्थो हि शास्त्रादवगम्यते नान्यथेति भाष्यम् । क्रतवेऽर्थः क्रत्वर्थः, 20 ऋतूपकारक इतिकर्तव्यताभागः। स शास्त्रादवगम्यते कर्तव्यत्वेन। ननु यथा
फलसाधनस्य करणत्वात् तत्र लिप्सानिबन्धना प्रवृत्तिः, एवमितिकर्तव्यतांशस्यापि करणोपकारद्वारेण फलसाधनत्वमस्तीति तत्र लिप्सातः प्रवृत्तिः किमिति न भवेत्, इत्याशङ्क्याह इतिकर्तव्यतांशस्त्विति। “फलसिद्धिमवान्तरोकुर्वन्नियोगं साधयत्यतस्तस्य फलेन सम्बन्धः, नेतिकर्तव्यतायाः" इत्येके । अन्ये तु “प्रयोगकाले करणस्येतिकर्तव्यतापेक्षणम् , न प्रतिपत्तिकाले । अधिकारावस्थायां हि करणस्यैव फलसिद्धावुपायतावगमः, प्रयुज्यमानस्तु शुद्धोऽनुपकृतः फलसिद्धये न प्रभवतीति प्रयोगकाले प्रवृत्तस्येतिकर्तव्यतापेक्षणं न प्रथमतः । फलार्थितया न तत्र करण इव प्रवृत्तिः" इत्याहुः ।