________________
७५
आह्निकम् ]
प्रमाणप्रकरणम् चोद्यते किन्तु अप्रवृत्तक्रिय एवेति, सर्वथा णिजाद्विलक्षणो लिङर्थः । नियोगे व्युत्पत्त्युपपादनम्
आह भवत्वयं विलक्षणोऽर्थः, स तु प्रमाणान्तरानवगम्यश्चेत् कथं शब्दैकगोचरे तत्र सम्बन्धव्युत्पत्तिः ? उच्यते । शब्दैकगोचरस्तु नियोगो व्युत्पत्तिश्च तत्र सूपपादैव । यो हि यजेत दद्याज्जुहुयादिति लिङादिभ्यो विधिः प्रतीयते, 5 कथमसौ लिङादीनामगम्य इष्येत ? व्युत्पत्तिश्चास्य व्यवहारादवकल्पते । गच्छा-. धीष्वेति शृण्वन् वृद्धश्चेष्टमानो दृश्यते, चेष्टा च स्वात्मनि प्रतिका अवगमपूर्विका दृष्टा । प्रत्यक्षदृष्टे चाम्रादौ सुखसाधनतया अन्वयव्यतिरेकाभ्यामवगते तदनुस्मरणात् प्रवर्तमानः कस्मिश्चिदात्माकूते समुपजाते सति भौतिकं व्यापारमारभते। स चात्मधर्म आत्मेव स्वसंवेद्यः। अहम्प्रत्ययगम्यो ह्यात्मा, नासौ परस्मै 10 दर्शयितुं शक्यते, न च चर्चयितुं शक्यते, एतावता नानुभूयत इति शक्यते वक्तुम् । परोऽपि टेनमहम्प्रत्ययेनानुभवत्येव, तथा अयमपि भौतिकव्यापारहेतुरात्माकूतविशेषो न प्रमाणान्तरवेद्यो भवति । न च न वेद्यते तत्संवेदने सति चेष्टा यद्वन्तं दृष्ट्वा तस्यापि तादृक् प्रेरणावगमोऽनुमीयते ।
स च शब्दान्तरश्रवणे सत्यदृश्यमानो लिङादिश्रवणे च सति दृश्यमान- 15 स्तदर्थ एवेत्यन्वयव्यतिरेकाभ्यामवगम्यते इतीयतीयं व्युत्पत्तिः । तदेतदात्मप्रत्यक्षं लिङादिशब्दश्रवणे सति प्रेरणावगतिर्भवति, प्रथमश्रुताच्च लिङादेरसौ न भवति, न च प्रमाणान्तरेण सोऽर्थो दर्शयितुं शक्यते । कुर्यादित्यस्यार्थः कुर्यादित्यनेनैव प्रतिपाद्यते, न प्रमाणान्तरेणेत्येवं व्युत्पत्तौ सम्भवन्त्यामपि यैरगृहीतसम्बन्ध एव लिङादिः स्वरूपसामर्थ्य नैव प्रेरक इष्यते, तेऽत्यन्तभीरव 20 इत्युपेक्षणीयाः ।
ननु यदि लिङादिव्यतिरेकेण नान्यतो नियोगोऽवगम्यते कथमसौ कस्मिश्चिदात्माकूते 'उपादेयमेतन्मया' इत्येवंरूपे ।
ननु कुर्यादित्यत्र यः प्रतिभाति स नियोग इत्युक्तम्, तत् कोऽसौ प्रतिभाति इति वक्तव्यमित्याशङ्क्याह कुर्यादित्यस्यार्थ इति। अनेनैतत् प्रतिपादयति लोके वेदे वा 25 नियोगः शब्दोल्लेखरहितायां प्रतीतौ न प्रथत इति ।