________________
७२
न्यायमञ्जय
[ पञ्चमम्
पादा माषा इत्यादावदर्शनात् । किञ्च कस्यानुरोधेन द्वे भावने प्रत्ययवाच्ये इष्येते ? उच्यते । लिङ्गादिशब्दश्रवणे सति कार्ये च प्रेरणायाञ्च न द्विरुत्पद्यते मतिः ।
यद्येवमेक एव तादृशोऽसौ लिङर्थो भवतु तदेकत्वाच्च न परस्पर5 समन्वयश्चिन्तयिष्यते, न च प्रत्ययेऽप्यतिभार आरोपयिष्यते ।
नियोगस्य वाक्यार्थत्ववादः
नन्वेकस्यापि लिङर्थस्य यदि शब्दः कार्यत्वं प्रेरणाञ्च ब्रवीति ततस्तदवस्थ एवातिभारः । कश्चासावेकः कार्यात्मा प्रेरणात्मा च तस्यार्थः ? उच्यते । यो लिङादेः प्रत्ययादवशिष्यते यमभिवदतो न तस्यातिभारो यत्र न तद्व्यति10 रेकेण प्रमाणान्तरं क्रमते, स नियोगो नाम वाक्यार्थः । तथा हि शब्दव्यवहारतः शब्दानामर्थे व्युत्पत्तिरित्यत्र तावदविवादः । एवं व्यवहारे च वाक्यार्थे वाक्यस्य व्युत्पत्तिर्वाक्येन सर्वत्र व्यवहारात् । तत्र यजेतेत्यादितिङन्तपदयुक्तेषु वाक्येषु पदान्तराणामर्थस्तावदास्ताम्, आख्यातार्थे ह्यवगते तदानुगुण्येनासौ स्थास्यति । आख्यातस्य च यजेतेत्येवमादेरर्थः परीक्ष्यमाणः प्रेरणात्मक एवावतिष्ठते । यतः पदान्तरसन्निधाने सत्यपि न प्रेरणाबुद्धिरुपजायते । आख्यातपदश्रवणे सति सा जायते, तस्मात् तस्यैव प्रेरणात्मकोऽर्थः । तत्रापि तु जुहोत्यादिधात्वन्तरोपजननापायपर्यालोचनया धातोस्तत्प्रतीतौ व्यभिचारात् प्रत्ययस्य चाव्यभिचारात् तस्यैव सोऽर्थ इति शस्यते । कः पुनरसावर्थो यस्मिन् सति नियुक्तोऽहमत्रेति प्रतिपद्यते पुरुष: ? सोऽसावर्थ एव 20 विधिरित्युच्यते ।
15
विधौ हि लिङादिप्रत्ययं स्मरति पाणिनिः, न धात्वर्थे, यागादौ, न कर्तृव्यापारे, भावनायाम् । विधिश्च नाम प्रेरणात्मक एव । अत एव वर्तमानापदेशिकाख्यातजनितप्रतीतिविलक्षणेयं प्रतीतिर्यजेतेति । अत्र हि प्रेष्यप्रेषयोः सम्बन्धोऽवगम्यते । किमन्यश्चात्र क्रियाकर्तृसम्बन्धो नावगम्यते ? न ब्रूमः नावगम्यते 25 इति । किन्तु प्रैष्यप्रैषलक्षणोऽपि सम्बन्धः प्रथममवगम्यते, प्रेषितो हि क्रियां कर्तुमुद्यच्छतीति ।
1