________________
चारुचरणश्रीसुश्रुताः, तथा विश्रुताः विख्याताः स्थानाङ्गादिनवाङ्गी विवरणकरणाविर्भूतावदातयशसा, एवं विधाः सद्गुरवः के?अत्रोत्तरम्श्रीमदभयदेवाचार्याः श्रीदुर्लभराजसभासमक्षचैत्यवासिनिरासावाप्तखरतरविरुदश्रीजिनेश्वरसूरिशिष्याः श्रीअभयदेवसूरय इत्यर्थः। व्यस्तसमस्तजाति: ॥ १५८॥
अथ स्वस्य मौलगुरूनभिष्टोतुं तन्नाम्ना प्रश्नोत्तरं प्रदर्शयतिकः स्यादम्भसि वारिवायसवति ? क्व द्वीपिनं हन्त्ययं , लोकः ? प्राह हयः प्रयोगनिपुणैः कः शब्दधातुः स्मृतः?। ब्रूते पालयिताऽत्र दुर्धरतरः कः क्षुभ्यतोऽम्भोनिधेब्रूहि श्रीजिनवल्लभ! स्तुतिपदं कीदृग्विधाः के सताम् ?॥१५९॥
॥मद्गुरवो जिनेश्वरसूरयः॥ द्विर्गतः॥ व्याख्याः- वारिवायसवति जलकाकयुक्ते अम्भसि कः स्यात्? मद्गुः जलवायसः, तस्य रवः-शब्दः मद्गुरवः।
अयं लोकः द्वीपिनं चित्रकं व हन्ति? अजिने चर्मणि, चर्मनिमित्तमित्यर्थः। 'निमित्तात् कर्मयोगे सप्तमी वाच्या' [सार.सू.४५५, श्लो. ८५] अनेन 'अजिने' इत्यत्र सप्तमी। . हयः प्राह- प्रयोगनिपुणैः शब्दधातुः शब्दार्थे को धातुः स्मृतः? हे अश्वर! रस्!, 'तुस-हस-हूश-रस शब्दे' [पाणि. धातु. ७५६, ७५७, ७५८, ७५९] इति वचनात्।
पालयिता ब्रूते- क्षुभ्यतोऽम्भोनिधेः समुद्रस्य को दुर्द्धरतरः धर्तुमशक्यः? हे ऊ! रक्षक! अवतीति ऊः, क्विप्, रयः वेगः।
نه
'व्यस्तसमस्तजातिः' इति न ३। 'अस!' इति १। 'रस्' इति न १, २॥
سه
प्रश्रोत्तरैकषष्टिशतकाव्यम्