________________
→ ननु तथापि स्याद्वादास्वीक्रियमाणनैयायिकानां शास्त्रेण अलम् इतिचेन्न । स्याद्वादस्य सर्वपदार्थान्तः स्थितत्वाद् । आर्हतैः स प्रकाश्यते अन्यैश्च नाविष्क्रियते, एकनयबद्धत्वात् । अतो ग्रन्थोऽयमनादरणीय इति न, स्याद्वादशैलीभिरध्येतव्यः ।
→ ननु शास्त्रीयपदार्थविरहितत्वाद् आत्मिकलाभाभावाच्च न एषणीय इति चेन्न । अभिप्रायानभिज्ञत्वात् । प्रथमं तु ग्रन्थेऽस्मिन् शास्त्रीयपदार्थविरहितत्वाभाव एव, अर्थात् शास्त्रीयपदार्थसंयुक्तत्वमेव । पूर्वधरप्रणीततत्त्वार्थादिसूत्रेऽपि अनुमानादिप्रमाणानां निरूपितत्वात् । अस्मिन् ग्रन्थेऽपि अनुमानजन्यअनुमितिसाधकव्याप्तेः प्रतिपादकता वर्तते । तेन भवत्प्रदत्तशास्त्रीयपदार्थविरहितत्वरूपहेतो नैष्फल्यमेव ।।
अस्तुतावत् शास्त्रीयपदार्थविरहितत्वम् । तथापि ईद्दशग्रन्थाध्ययनस्य कुशाग्रबुद्धिजनकत्वात् । कुशाग्रबुद्धेस्तु जटिलशास्त्रीयपदार्थाध्ययने प्रकृष्टहेतुत्वात् । जटिलशास्त्राध्ययनरूपं - यत्कार्यं, शास्त्राध्ययने - कार्यता, ताद्दशकार्यतात्वावच्छिन्नकार्यतानिरूपितकारणता कुशाग्रबुद्धौ विद्यमानत्वात्, एतादृशग्रन्थाध्ययनं समुचितमेव ।
→ अपरहेतुः आत्मिकलाभाभावः । एतदपि न समुचितः । पूर्वोक्तयुक्त्यैव तस्यापि व्यावृत्ति भवितुमर्हति ।
अनेन ग्रन्थाध्ययनेन शीघ्रं साध्याभावाधिकरणनिरूपित वृत्तित्वाभावस्वरूप व्याप्ते ाप्तिः मयि सर्वेषु जीवेषु च भवतादिति परमात्मानं प्रार्थयामहे।
→ कथं व्याप्ते या॑प्तिः ?
तथाहि-साध्यः-कर्ममुक्तत्वम्, साध्याभावः-कर्ममुक्तित्वाभावोऽर्थात् कर्म युक्तत्वम्, तदधिकरणम् - संसारिजीवाः, तन्निरूपित वृत्तिता - संसारे, वृत्तित्वाभावः मुक्तौ, तस्मिंश्चास्माकं सर्वात्मप्रदेशस्य व्याप्ति भूयात् - अर्थात् मुक्तेरुपलक्षणान्मुक्तात्मभिस्सहास्मदात्मप्रदेशाणामभेदभाव इष्यते ।
तदभेदभावस्य वि = विशेषेण आप्तिः = प्राप्ति र्भवतादिति ।