________________
मदीयं किञ्चित्
अनाद्यन्तानेकान्तवादप्ररूपक - अर्हत्परमात्मन आशीरालभ्य महाव्रतपञ्चकधारि-मनोनियन्तृ-मुनिमहात्मनो वन्दित्वा उपकारिभ्यश्चोपास्य
किञ्चिदिदं प्रस्तूयते
सप्तनयालङ्कारैः शोभायमान- सर्वज्ञतीर्थकृन्निरूपित- स्याद्वादधर्मे प्रमेयपदार्थप्रतीतिहेतुभूतप्रमाणस्य द्वैविध्यमुक्तम् । भाषितञ्च हरिभद्राचार्यै: षड्दर्शनसमुच्चये “प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते " ।। ५५ ।। पूर्वार्धे ।
`तत्र परोक्षस्य पञ्चप्रकारमध्ये एकमनुमानमस्ति । किं तावदनुमानम् ? व्याप्तिविषयकं यज्ज्ञानं तदेवानुमानम् । अनुमानं व्याप्तिज्ञानमित्यनर्थान्तरम् । तद्व्याप्तिस्वरूपज्ञापयन् पञ्चलक्षणस्वरूपव्याप्तिपञ्चकग्रन्थो वर्णितः । तेषु पञ्चलक्षणेषु मध्ये प्रथमलक्षणसम्बन्धिविचारणा ग्रन्थेऽस्मिन् विवेचिता ।
→ ननु ग्रन्थेऽस्मिन् शब्दै र्वीतरागगुणानां कथनमकृतं तेन आर्हद्धर्मिणाम् ग्रन्थस्यास्य उपादेयतायाऽसिद्धत्वमिति चेन्न । ग्रन्थादौ एव वीतरागगुणकथनरूपमङ्गलश्लोकस्योक्तत्वात् । न च मङ्गलरूपश्लोकस्य वीतरागगुणमयत्वेऽपि ग्रन्थस्यान्तः तस्याभावादनुपादेयता तदवस्थैव इति वाच्यम् । मङ्गले ग्रन्थस्याभिन्नताया विद्यमानत्वात् ।
अस्तु तावत् यदि मङ्गले ग्रन्थस्य भिन्नता विद्यते तथापि गुणानां कथनं ग्रन्थेऽस्त्येव । शब्दैर्नोक्तं किन्तु भावरूपेण तु उक्तमेव । तथाहि पञ्चपरमेष्ठिनः गुणारष्टाधिकशतानि, तत्सङ्ख्यकानि प्रश्नोत्तराणि ग्रन्थेऽस्मिन् सन्ति । अतः गुणकथनं तु जातमेव, तेन च ग्रन्थस्योपादेयता सिद्धा जाता ।
-