SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तादेश संमंधापरिछन्नावरछेउता: प्रतियोगितााभाव - સંયોગ સંબંધાવચ્છિ. અધેિયતા સંબંધથી વહ્નિ વિશિષ્ટાભાવ આ मभावाधि२५ ड्राहि जनशे. तन्निरुपित वृत्तिता ४ ४ सरुप हेतुभां तां भव्याप्ति मावशे. गूढामृतलीला (५०) किञ्चिदत्र निरूप्यते । अत्र साध्यतावच्छेदकतावच्छेदकसम्बन्धावछिन्नत्वं तावत् साध्यतावच्छेदकता निरूपित संसर्गतावच्छेदकता पर्याप्त्यधिकरण धर्मावच्छिन्नत्वे सति साध्यतावच्छेदकता निरूपित संसर्गतावच्छेदकेतरानवच्छिन्ना या संसर्गता तन्निरूपकत्वम् । . कृते चैतादृशे परिष्कारे पूर्वोक्ताव्याप्तिवारण सम्भवः । यतो हि समवायविषयित्वान्यतरसम्बन्धावच्छिन्न वह्नित्व विशिष्टवान् धूमादित्यत्र साध्यतावच्छेदकता निरूपित संसर्गता - समवायविषयित्वान्यतर निष्ठ संसर्गता, संसर्गतायाः अवच्छेदकं- समवायविषयित्वान्यतरत्वम्, अवच्छेदकतायाः पर्याप्त्यधिकरणम्समवाय विषयित्वान्यतरत्वम्, तद्धर्मावच्छिन्ना संसर्गता - समवाय विषयित्वान्यतर निष्ठ संसर्गता। अथ च साध्यतावच्छेदकता निरूपित संसर्गता - समवाय विषयित्वान्यतर निष्ठ संसर्गता, संसर्गतायाः अवच्छेदकम् - समवाय विषयित्वान्यतरत्वम्, तदितरसंयोगत्वादि, तदनवच्छिन्ना या संसर्गता - समवाय विषयित्वान्यतरनिष्ठ संसर्गता, तन्निरूपकत्वं वह्नित्वनिष्ठावच्छेदकताकप्रतियोगिताकाभावीयप्रतियोगितावच्छेदकतायां वर्तते । अतः न केवलं विषयित्वसम्बन्धावच्छिन्नवह्नित्वनिष्यवच्छेदकताक प्रतियोगिताकाभावो लक्षणघटकाभाव अपि तु विषयित्वसमवायान्यतरसम्बन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकाभाव एव लक्षणघटकाभावपदेन वक्तुं शक्यते । तदभावाधिकरणं नहि पर्वतादिकम्, तत्र समवायसम्बन्धावच्छिन्नावच्छेदकताक प्रतियोगिताकाभावीयप्रतियोगिताश्रयस्य वढेः विद्यमानत्वात् । अपि तु जलहूदादि एव । तन्निरूपितवृत्तित्वाभावस्य धूमे सत्त्वाद् नाव्याप्तिः । (७३)
SR No.002343
Book TitleGudhamrutlila
Original Sutra AuthorN/A
AuthorRajdharmvijay
PublisherShrutgyan Sanskar Pith
Publication Year
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy