________________
॥ हैं. त्रि. श. पु. च. गता श्रीशतबलनपस्यभावना ॥
( अनुष्टुब वृत्तम् ) विधाय सहजाशौचमुपस्कारैर्नवनवम् । गोपनीयमिदं हन्त कियत्कालं कलेवरम् ॥१॥ सत्कृतोऽनेकशोऽप्येष सक्रियेत यदापि न। तदापि विक्रियां याति कायः खलु खलोपमः ॥२॥ अहो बहिर्निष्पतितैर्विष्ठामूत्रकफादिभिः। दीयन्ते प्राणिनोऽमी, कायस्यान्त स्थितैर्न किम् ॥३॥ रोगाः समुद्भवन्त्यस्मिन्नत्यन्तातङ्कदायिनः । दन्दशूका इव क्रूरा जरद्विटपकोटरे ॥४॥ निसर्गाद्गत्वरश्वायं कायोऽब्द इव शारदः। दृष्टनष्टा च तत्रेयं योवनश्रीस्तडिनिभा ॥५॥ आयुः पताकाचपलम् , तरङ्गचपला श्रियः । भोगिभोगनिभा भोगाः सङ्गमाः स्वप्नसन्निभाः ॥६॥ कामक्रोधादिभिस्तापैस्ताप्यमानो दिवाऽनिशम् । आत्मा शरीरान्तस्थोऽसौ पच्यते पुटपाकवत् ॥७॥ विषयेष्वतिदुःखेषु सुखमानी मनागपि । नाहो बिरज्यते जनोऽशुचिकीट इवाशुचौ ॥८॥ दुरन्तविषयास्वादपराधी. नमना जनः । अन्धोऽन्धुमिव पादारस्थितं मृत्युं न पश्यति ॥९॥ भापातमात्रमधुरैविषयैर्विषसन्निभैः । आत्मा मूछित एवास्ते स्वहिताय न चेतति ॥१०॥ तुल्ये चतुर्णा पौमर्थ्ये पापयोरर्थकामयोः। आत्मा प्रवर्तते हन्त न पुनर्धर्ममोक्षयोः ॥११॥ अस्मिन्नपारसंसारपारावारे शरीरिणाम् । महारवमिवानध्य मानुष्यमिह दुर्लभम् ॥१२॥ मानुष्यकेऽपि सम्प्राप्ते प्राप्यन्ते पुण्ययोगतः। देवता भगवानईन् , गुरवश्व सुसाधवः ॥१३॥ मानुष्यकस्य यद्यस्य वयं नादद्महे फलम् । मुषिताःस्म तदधुना चौरैर्वसति पत्तने ॥१४॥