________________
सणो तय मङ्गलाणं च । सव्वेसि पढम हवइ मङ्गलं, सुमइसूरीहिं ॥११॥ इय वद्धमाण विजा चक्केसरपहु पसाय संपत्ता । पंचपरमिट्ठिणो मह हवंतु सुलहा पइभवंमि ॥१२।।
|| श्रीरस्तु । मङ्गलं भूयात् ॥
श्रीगौतमाकष्टकम् श्रीइन्द्रभूतिं वसुभूतिपुत्रं, पृथ्वीभवं गौतमगोत्ररत्रम् । स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वाग्छितं मे ॥१॥ श्रीवर्धमानात् त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन । अङ्गानि पूर्वाणि चतुर्दशाऽपि, स गौतमो यच्छतु वाब्छितं मे ॥२॥ श्रीवीरनाथेन पुरा प्रणीतम्, मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सृरिवराः समग्राः, स गौतमो यच्छतु वाञ्छितं मे ॥३॥ यस्याभिधानं मुनयोऽपि सर्वे, गृहणन्ति भिक्षाभ्रमणस्य काले । मिष्टान्नपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वाञ्छितं मे ॥४॥ अष्टापदाद्री गगने स्वशक्त्या, ययौ जिनानां पदवन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छितं मे ॥५॥ त्रिपश्चसङ्ख्याशततापसानाम् , तपःकृशानामपुनर्भवाय । अक्षीणलब्ध्या परमान्नदाता, स गौतमो यच्छतु वाञ्छितं मे ॥६॥ सदक्षिणं भोजनमेव देयं, साधर्मिकं सङ्घसपर्ययश्च । कैवल्यवखं प्रददौ मुनीनाम् , स गौतमो यच्छतु वाञ्छितं मे ॥७॥ शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्वा । पट्टाभिषेको विदधे सुरेन्द्रः, स गौतमो यज्छतु वाच्छितं मे ॥८॥ श्रीगौतमस्याष्ठकमादरेण, प्रबोधकाले मुनिपुङ्गवा ये । पठन्ति ते सूरिपदं च देवानन्दं लभन्ते सुतरां क्रमेण ॥ ९ ॥