________________
[१] D मूलश्लोकः
(शिखरिणी-वृत्तम् ) इयं जैनी मूत्तिर्ह दयकमले यस्य लसिता , न दुःखं दारिद्रय दलितमखिलं मोहनिकरम् । विधातुं दुःशकयं भवति सुलभं तत् प्रतिपदं , अतो ध्येया गेया सततमभिपेयाऽक्षिप्रमुखैः ॥ १ ॥
+ संस्कृतभावार्थः-एषा वीतराग - परमात्मनः श्रीजिनेश्वरदेवस्य मूत्तिः, यस्याराधकजीवस्य स्वहृदयकमले सुशोभते, तस्य दुःखं दारिद्रय समस्तं दुरितं मोहादिकं कषायनिकरं स्वयमेव सहसा विनष्टं विनाशं भवति । अस्मिन् संसारे यच्च कत्तु दुष्करं कठिनं महता प्रयासेन साध्यं, तदपि झटिति सुकरं सुलभं प्रतिपद्यते । ___ अतो भक्त : सर्वजनैश्च सर्वदा मनसा ध्येया, वचसा गेया, दृष्टयादिना च अनवरतदर्शनीया, वन्दनीया, अर्चनीया, पूजनीया चेति ।। १ ।।
* हिन्दी अनुवाद-यह वीतराग परमात्मा श्रीजिनेश्वर देव की मूत्ति-प्रतिमा जिस पाराधक जीव के हृदय रूपी कमल में सुशोभित है, उसके दुःख, दरिद्रता, मोह, मूर्च्छना तथा कर्कश कषायादि अकस्मात् विनष्ट हो जाते हैं ।