________________
स्याद्वादबोधिनी - ६१
अन्वयः - विहिता, अपि हिंसा, धर्महेतुः न, अन्यार्थम्, च उत्सूत्रम्, न अपोद्यते । परेषाम् स ब्रह्मचारि, स्फुरितम्, स्वपुत्रघातात् नृपतित्वलिप्सा ( इव प्रतीयते ) ।
5 स्याद्वादबोधिनी - सम्प्रत्याचार्यो वैदिकी हिंसा हिंसा न भवतीति मीमांसकोक्तं मतं सयुक्त्या निराकुर्वन् कथयति - वेदोक्ता हिंसा हिंसा न भवति इति कथनं न तर्कसंगतम् । यतो हि हिंसा सदैव पापकर्म्मबन्धिनी, श्रात्मनः पातिनी चेति । ' मा हिंस्यात् सर्वभूतानि' इति उत्सर्गवाक्याद् भवता स्वयमेव स्वीकृतमेव । पुनश्च वेदविहिता हिंसा हिंसा कथन स्यात् ? हिंसायाः व्युत्पत्ति स्तावहिंसनं हिंसा । 'गुरोश्च हलः' इति प्रप्रत्ययः, स्त्रियां टापि । परप्राणव्यपरोपणं हिंसा । श्लोकेऽस्मिन् वैदिकी हिंसापि । पापायैव न तु पुण्यायेति वक्त मुपक्रमितमाचार्येण ।
मीमांसकाः कथयन्ति - वेदप्रतिपादिता हिंसा पुण्यनिका भवति । यतो हि तस्याः हिंसया सन्तुष्टाः देवाः वृष्टि कुर्वन्ति । प्रतिथयः कृपावन्तो भवन्ति पितरः सन्तति संवर्द्धयन्ति । श्रीजैनदर्शन मान्यतानुसारेण नैतद् वैदिकोक्तमुपादेयम् । यतो हि कापि हिंसा पुण्याय न कल्पते । 'वैदिकी हिंसा, हिंसा न भवति' अपितु पुण्य