________________
स्याद्वादबोधिनी-५६ कण्डूलं मुखं यस्य सः तस्मिन् । जने प्राकृतप्राये लोके विषयत्वं सप्तम्यर्थः ।
अयं भावः-यो हि स्वयमेव भूतावेशेन पिशाचवत् यथा तथा प्रचलति मुधैवं विवादं करोति । तस्मिन्नपि विषये प्रक्षपादः छल-जाति-निग्रह प्रभृतीनि षोडशतत्त्वानि उपदिशति । असौ श्रोजैनदर्शन-मुनिवरेभ्यो भिन्नोऽपि विरक्तः वीतरागः कथ्यते । अतोऽसौ अहो आश्चर्यकारी प्रकृतिः । नाऽसौ विरक्तोऽपि तु रागरक्तः । उपहासार्थम् अहो शब्द प्रयोगः ।
सर्वे दार्शनिकाश्चैवं मन्यते-पदार्थसार्थं ज्ञानेन तत्त्वाधिगमो जायते । तत्त्वाधिगमेन रागादिनिवृत्तिः । यत्र यत्र रागादिनिवृत्तिस्तत्र तत्र मुक्तिः । अतो यो हि स्वयं रागवान् स यदि वितण्डादिपदार्थोपदेशं परेभ्यः प्रयच्छति, तैरपि मुक्ति स्वीकरोति । तदाऽसौ मुग्धान् जनान् वञ्चयत्येवम्, नैव मुक्तिमार्ग प्रदर्शयति । स्वयं विनष्टः परान् विनाशयति । तेन विनाशो विरक्तः । परमतिशयेन रागलिप्तः इति परमार्थः । श्रीतत्त्वार्थसूत्रे तु विवादेनाऽपि श्रीतर्वाधिगमो भवति-इति सूचितम् ।
वादिनौ द्वौ भवतः जिगीषुस्तत्त्वनिर्णेता च। तौ मिथो विवदमानौ साधक-बाधकाभ्यां प्रमाणाभ्यां स्वमतं समर्थयतः । परमतं निराकुरुतः ।