________________
स्याद्वादबोधिनी-५०
* अन्वयः-यत्रैव यः दृष्टगुणः, सः तत्र । कुम्भादिवत् एतत् निष्प्रतिपक्षम् । तथापि अतत्त्ववादोपहताः, देहाद् बहिः प्रात्मतत्त्वं पठन्ति ।
स्याद्वादबोधिनी-यत्रैवेति न्यायनये प्रात्मा व्यापकः तस्य व्यापकत्वे प्रमाणस्यापि व्यापकता यथा गगनं सर्वत्र वर्तते । श्रीजैनदर्शने-जैनमते लोकाकाशेऽलोकाकाशेऽपि नायं नियमः । यः विपुलावयवः स एव विपुलान् प्रदेशान् व्याप्नोति । कालादयोऽपौद्गलिकत्वेन निरवयवाः । ते सर्वत्रोपलभ्यन्ते तथैव निरवयव प्रात्मापि तेन व्यापका तस्य तत् परिमाणस्येति परे दार्शनिकाः । श्रीजैनमते प्रदेशी आत्मा। प्रदेशवति शरीरवर्त्तमानत्वात् अतः शरीरप्रमाणत्वमेव । न हि शरीरं विहाय जडवर्गेषु धर्माऽधर्मादिषु प्रात्मा वर्तते । तत्र दृष्टान्तमाह
ये गुणाः यत्र दृष्टचरास्ते तत्रैव भवन्ति नान्यत्र । यथा-पृथ्वीगत गुणा रूपादयो नाकाशादौ उपलभ्यन्ते तथैव शरीराद् बहिर्नात्मा। बहिर्गतत्वे जडत्वापत्तिः घटस्य रूपाणि घटे एव तिष्ठन्ति नहि परत्र तथैवात्मनो देहपरिमाणत्वं नान्यत्रेति सर्वैरेव स्वीकृतम् । तथापि देहात् बहिरात्मा तद्गुणाश्च तथा इति येऽपलपन्ति ते मिथ्याप्रलापिनः ।