________________
गुरु-गुणानुवाद-स्तवना
सुशीलता सज्जनता विनम्रता, दयालुता कोमलता कृपालुता । इमे गुणा यत्र वसन्ति सर्वदा,
सुशीलसूरिवितनोतु वः शिवम् ॥। १ ।।
गम्भीरता यत्र सुमेरुसन्निभा,
अगाधता वेदसमुद्रोऽधिक । सुधामुधाकारि वचांसि सर्वदा,
सुशीलसूरिवितनोतु वः शिवम् ॥। २ ।।
सुचारुता चारुचरित्रचन्द्रिका,
विशुद्धता निर्भरवारिनिर्मला ।
सुसाधुता साधक सिद्धसौम्यता,
सुशीलसूरिवितनोतु वः शिवम् ॥। ३ ।।
जलौघपूर्ण जलदे विनम्रता,
फलैर्भृते कल्पतरौ वनस्पती ।
अधिश्रियन्ती च तयोर्विनम्रता,
सुशीलसूरिवितनोतु वः शिवम् ॥ ४ ॥