________________
स्याद्वादबोधिनी-८१
जन्यजगत् कर्मजन्यम् न तु तन्मात्रा सम्भवम्, बन्ध-मोक्षी जीवस्यैव भवतः, न परस्य यो हि कर्मभिः बध्यते स एव प्रयत्नविशेषान् मुच्यते। बन्ध-मोक्षौ एकाधिकरणवत्तिनौ। सापराधात् पशवः एव बध्यन्ते, न तु पशुस्वामी। तस्करा एव कारागारे क्षिप्यन्ते नियतकालाय त एव मुच्यन्ते न परः । तद् व्यतिरिक्तायाः कल्पना सा परवञ्चनाय जडैः क्रियते । इति श्रीजनदर्शनम्-जैनमतम् संक्षेपेण ।
साङ ख्याचार्यस्तु प्रकृतिविश्वकर्वी त्रिगुणात्मिका । ततः सा जडा न तु चेतनात्मिका, सा प्रथमं महत्तत्त्वं जनयति-बुद्धिः शब्देन कथ्यते ।
जडजन्यपदार्थोऽपि जड एव । अतः सा जडमयी रूपतन्मात्रा रसन्मात्रादिभ्य एव प्रपञ्चः । तन्मात्रा सूक्ष्मपदार्थः न्यायदर्शनमते परमाणवो भवन्ति । तन्मात्रादिभिरेव जगन्निमितिः ।
पुरुषस्तु पुष्कर-पलाशवनिर्लेपः गगनवत् तस्य बन्धमोक्षौ न भवतः । आकाशो न कदापि बध्यते । बन्धाभावान्न मुच्यते । बन्ध-मोक्षौ चैकस्मिन्न व दृश्यते इति तन्मतं तत् जडकल्पनावत् इति ।