________________
जैनशासनसम्राजो, विभ्राजो ज्ञानरश्मिभिः । सूरिमन्त्रैकप्रस्थान - पञ्चकाराधकाः किल ॥ १७ ॥ सद्ब्रह्मचारिणः श्रीमन्नेमिसूरीश्वरा वराः । क्षमाधराचिता जाता-स्तत्पट्टाम्बर भास्कराः ॥ १८ ॥ सप्तलक्षाधिकश्लोक - मितस्य संस्कृतस्य च । साहितस्य सुकर्तारः, कृतीशा ब्रह्मचारिणः ॥ १६ ॥ शान्ता: साहित्यसम्राजो, विभ्राजो ज्ञानज्योतिषा । ख्याता व्याकरणे वाच-स्पतयः कविरत्नकाः ॥ २० ॥ शास्त्रविशारदा जाता, लावण्यसूरिशेखराः । तेषां पट्टधरा मुख्याः , दक्षा: शास्त्रविशारदाः ।। २१ ॥ कविदिवाकरा ख्याताः, सद्व्याकरणरत्नकाः । दक्षसूरीश्वरा जाताः, सुशीलालङ कृताः शुभाः ।। २२ ।। पट्टधरेण तेषां वै, सहोदरेण साधुना । देव-गुरु प्रसादात् श्रीसुशीलसूरिरणा मुदा ।। २३ ।। जम्बूद्वीपे प्रसिद्धेऽस्मिन् , रम्ये भरतक्षेत्रके । भरते दक्षिणा श्री मध्यखण्डे विराजिते ॥ २४ ॥ राजस्थाने शुभे प्रान्ते, मरुधरे प्रदेशके । गोडवाडविभागे वै, श्रीबाली नगरे वरे ॥ २५ ॥
( ५१ )